Book Title: Story Of Merchant Champaka
Author(s): Johannes Hertel
Publisher: Johannes Hertel

Previous | Next

Page 17
________________ II. Rāvana unable to overcome Destiny. इतच रावणस्तद्विधिनियोगान्यथाकरणाय चन्द्रावतीकन्यां रक्षोयेनापाहारयत् । तत्रानीता च तेन । ततो रावणो विद्यादेवीं कांचनादिदेश यथा । तिमिगिलीरूपं पर्वतप्रायं कृत्वा लग्नदिनावधि' भक्ष्यपेयताम्बूलमन्यदपि कार्यकारि वस्तु चन्द्रावतीं' चैता' कन्यां दन्तमयमहत्तरमञ्जूषायां प्रक्षिप्य तां मञ्जूषां स्ववदनमध्ये स्थापयित्वा च गङ्गासागरसंगमान्तराले" जलमध्ये तिष्ठ सप्तदशदिनावधि । ततः सा रावणादेशं तथैव चक्रे ।। ततो रावणस्तक्षकनागं' [व्यन्तरदेवविशेषम्] आकार्यादिदेश यथा। रत्नदत्तकुमार चन्द्रावतीकन्याविवाहाय सज्जीभवन्तं यात्वा दश । ततस्तेन रत्नदत्तकुमारो दष्टः । मान्त्रिका आहूताः । कृतास्तैः शतशो विषचिकित्साप्रकाराः । परं गुणः को ऽपि न जातः । अथ विषमूर्जी पाण्मासिकी शास्त्रे प्रोक्ता । अतो जलमध्ये प्रवाह्यते ऽसौ । नाग्निसंस्कारेण' दह्यते । इति विज्ञवचसा राज्ञा पुरुषप्रमाणपेटायां' क्षिप्त्वा गङ्गायां कुमार: प्रवाहितः । सा च पेटा जलमध्ये 18 भ्रमन्ती" भाव्यवशात्तस्यास्तिमः पार्श्व प्राप । इतच तिमिंगिलीदेवतापि' भवितव्यतावशात्सप्तदशे दिवसे विस्मृतयथादिष्टकर्तव्या लमदिनप्रभातकाले खिन्नास्येतावद्दिनमुखान्तर्निहितयानया मञ्जूषया । चलितुमपि न शक्ता' । संप्रति मुहूर्तमेकं मञ्जूषां बहिर्विमुच्य गङ्गासागरे क्रीडां करोमि । इति ध्यावा मञ्जूषां मुखादहिश्चकार । आसन्नद्वीप मुमोच । तस्या द्वारमुडाव्य वत्से' मुहर्तमेकमहं जले क्रीडां करोमि । तावता भवतो क्षणं जलधितटे क्रीडतु । इत्युदीर्य गता क्रीडायै तिमिंगिलीदेवी । अत्रान्तरे सा मञ्जूषा पवनप्रणुन्ना तत्रायाता' कन्यया कौतुकादुधारिता । दृष्टो मध्ये विषमूर्छितः कुमारः । विषापहारिमणिरमणीयस्वमुद्रिकाजलेन सिक्तो जातः सचेतन: कुमारः । अये पटलिखितरूपसादृश्योपलम्भान्मन्ये' रत्नदत्तकुमारी ऽयं यस्मै पिचाहं दत्तेति जहर्ष कन्या । कुमारो ऽप्यद्य [संप्रति आवयोर्विवाहलग्नमिति' मिथ: स्वस्वकथां कथयित्वा गान्धर्वविवाहरीत्या' पाणिग्रहणमकाम् । अथ कियन्त्यपि' जात्यान्यामलकप्रमाणानि मुक्ताफलानि* रत्नाZeitschrift der D. M.G. Bd. Lxv. 7 *

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51