Book Title: Story Of Merchant Champaka
Author(s): Johannes Hertel
Publisher: Johannes Hertel

Previous | Next

Page 20
________________ 20 III. Clever minister dc. (1.) Story of Merchant Campaka. तदा लङ्घनं कार्यम् । तव हत्या मम । तेन तथा प्रतिपन्नम् । एवं राजपुचस्य1 मिलितस्य" प्रोक्तं मन्त्रिणा । वत्स । यद्याखेटके' तव पाशे हस्ती पतति । तदा संबन्धनीयः । न मृगादयः । तेनापि तथा प्रतिपन्नम् ।22 ___ द्वावपि तथैव चक्रतुः । संध्यासमये ऽपि जाते बुभुक्षाक्षामो ऽपि मन्त्रिपुत्रश्चन्दनमारमेव गवेषते स्म । नापराणि काष्ठानि गृह्णाति स्म । तदा विधिना व्यन्तरदेवतया स्वप्रतिज्ञापूरणाकुलया कुतो ऽपि संपादितचान्दनो' भारः । राजपुत्रस्य च पाशे पातितो महागजः । तौ पुरमध्ये गती विक्रीय बहु द्रव्यमार्जयताम् । एवं प्रत्यहं कुरुतः स्म । जाती महर्द्धिको । हृष्टो मन्त्री। राजपुत्रस्य कियतापि कालेन सहस्रं गजा जाताः । मन्त्रिपुत्रस्य तु' सुवर्णकोटयः । ततो ऽन्यदा मन्त्रिबुद्ध्या द्रव्यबलेन दन्तिसैन्यसंपत्त्या च वैरिणो निर्जित्य हरिदत्तादयः प्राप्ता मथुरायाम् । प्राप्तं च साम्राज्यम् । हृष्टो मन्त्री स्वबुद्धिबलेन विधिलिखितस्यान्यथाकरणात् ॥ 32 तत उच्यते । उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीरिति । अथ वृद्धिदत्तमहेभ्यो ऽपि स्वधातरं प्रति प्रोवाच । बान्धवः । यथा तेन मन्त्रिणा स्वोपक्रमफलं प्राप्तम् । तथाहमपि स्वोपक्रमफलं प्राप्स्यामि । विलोकनीयं भवता ।। अथ खरोष्ट्रबलीवर्दशकटादिसार्थ' कृत्वा वृद्धिदत्तमहेभ्यः काम्पील्यपुरं प्राप । क्रयाणकक्रयविक्रयादिष्वाप्तानियोज्य स्वयं त्रिविक्रमगृहं गतः । त्रिविक्रमो ऽपि कृताभ्युत्थानांदिप्रतिपत्तिर्मणिमौक्तिकप्रवालादिप्रधानवस्तुसत्तां' निजां ज्ञापयन्कृतार्थाः स्मो भवदर्शनेनेति सविनयं स्वहस्तेनासनं ददौ । प्रयाणकालावधि युष्माभिरव" गृहे कुटुम्बवृत्त्या स्थेयमिति चावादीत् । एह्यागच्छ समाविशासनमिदं प्रीतो ऽस्मि ते दर्शनाका वार्ता पुरि दुर्बलो ऽसि च कथं कस्माच्चिराइंश्यसे । इत्येवं गृहमागतं प्रणयिनं ये भाषयन्त्यादरातेषां युक्तमशङ्कितेन मनसा गन्तुं गृहे सर्वदा ॥

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51