Book Title: Story Of Merchant Champaka
Author(s): Johannes Hertel
Publisher: Johannes Hertel

Previous | Next

Page 18
________________ 18 II. Rāvana do. -- (I.) – III. Clever minister outwits Destiny. न्यपि जलधितटपतितानि संगृह्य तिमिगिलीसमागमनवेला' ज्ञावा मञ्जूषामध्ये द्वावपि बद्धवस्त्राञ्चलो प्रविष्टौ । द्वारं च पिहितम् । समायाता तिमिंगिलीदेवी' । वत्से । मध्ये तिष्ठसि । इत्युक्त कन्या प्राह । मातः । सुखेनास्मि मध्ये' । ततः सा तां मञ्जूषां तथैव मुखान्त: स्थापयामास । इतच रावणेन नैमित्तिक: प्रोक्तः । मया भाव्यमपि तयोः पाणिग्रहणं टालितम् ।' त्वचो ऽन्यथा जातम् । तत आनायिता सा तिमिंगिलीरूपा देवी । बहिष्कृता मञ्जूषोडारिता च । दिव्यरूपेण तेन सनाथां सकङ्कणकरां तां दृष्ट्वा विस्थिताः सर्वे । निजवृत्तान्तं कथयामासतुस्तौ रावणस्य पुरस्तात् । ततो भाव्यमन्यथा' न भवतीति दशमुखो ऽपि निश्चिकाय । श्री अथ सत्कृत्य विसृष्टः कुमारः सकलचो ऽपि रावणप्रहितर्विद्या'धरैर्नीतः स्वपुरे मिलित: पित्रादीनाम । जातः परमानन्दः ॥ 28 इति कथयित्वा विरते साधुदत्तव्यवहारिण्युपक्रमवादी' वृद्धिदत्त: प्राह । नायमेकान्तः । उपक्रमो ऽपि प्रमाणम् । यतः । उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीदैवं तु देवमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिध्यति को ऽत्र दोषः ॥ अच दृष्टान्तः श्रूयताम। मथुरायां हरिबलो' राजा । सुबुद्धिमन्त्री सर्वबुद्धिनिधानम् । अन्यदा समकालमेकस्मिन्नेव लगे राज्ञः प्रधानस्य च पुत्रो जातः । राजपुत्रस्य हरिदत्त इति नाम । मन्त्रिपुत्रस्य मतिसागर इति च । अन्यदा षष्टीजागरणमहे निशीथसमये' कामपि स्त्रियं व्यन्तरीसदृशाकारां स्वगृहानिर्यान्तीं दृष्ट्वा मन्त्री केनापि प्रयोजनेन प्रबुद्धः । तां करे धृत्वा जगी । भद्रे । का त्वम् । सा प्राह । मन्त्रिन् । विधि 7 . .

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51