Book Title: Story Of Merchant Champaka Author(s): Johannes Hertel Publisher: Johannes HertelPage 19
________________ III. Clever minister outwits Destiny. 19 रिति प्रसिद्धनानी व्यन्तरीदेवताहम् । द्वयोरपि कुमारयोरद्य कपाले ऽक्षरलिखनायाचायाता' । लिखितान्यक्षराणि । संप्रति यान्त्यस्मि । मन्त्रिणोक्तम् । किं लिखितमस्ति त्वया । साभ्यधात् । अयमाखेटककर्ता' भावी । प्रतिदिवसं मृगयायामेक' एव जीवः पतिष्यतीति राज्ञः सुतस्य ललाटे । तथासौ काष्ठवाहको भावी । प्रतिदिनं चैक" एव काष्ठभारः शिरोवाह्य एव संपत्स्यते । नाधिक इति मन्त्रिणः सुतस्य भाले चाक्षराणि लिखितानि मया । इति व्यन्तर्या" प्रोक्त मन्त्री प्राह । हे विधे । कथमनीदृशं द्वयोरपि कुलानुचितं त्वया लिखितम् ।" विधिः प्राह ।18 मन्त्रिन । एवंविधैवानयोर्भवितव्यता । न हि केनापि लङ्घयितुं शक्यते । मन्त्री जगौ । तथा यतिष्ये स्वबुद्धिबलेन । यथा त्वया लिखितं सर्वमन्यथैव भविष्यतीति प्रतिज्ञा । त्वया पुन: स्वप्रतिज्ञानिर्वहणे यतनीयम् । यावदेतयोर्भाले लिखितमस्ति । तावत्प्रत्यहं संपादनीयम् । धष्टप्रतिज्ञा हास्वमाप्स्यसि । किमत्र कीटो मनुजः करिष्यसि खमित्युदित्वाथ विधिस्तिरो दधे । सुष्वाप मन्त्री मनसीष्टदेवतां स्मरन । विधेस्तद्वचनं न विस्मरन् । अथ तत्र पुरे ऽन्यदा सीमान्तभूपालसैन्यं च प्राप । हरिबलो' राजा चिरं शराशरि खड्गाखगि कुन्ताकुन्ति युद्धं कृत्वा प्राणांस्तत्याज । गृहीतं पुरं वैरिभिः । तदा चावसरं प्राप्य हरिदत्तमतिसागरौ नष्टी भुवि भ्रमन्ती भिक्षया निर्वहन्ती' लक्ष्मीपुरं प्राप्ती । राजपुत्रो व्याधगृहे गतस्तेषां भृत्यो जातः । अन्यदाखेटकं कुर्वन्पृथक्कुटीरकं कृत्वा स्थितः । मन्त्रिपुत्रो ऽपि काष्ठभारं वनादानीय" स्वनिर्वाहमतनोत् । कथं विधेरक्षराख्यन्यथा स्युः ।। इतश्च मुबुद्धिमन्यपि भुवि भ्रमस्तच पुरे समायातः । दृष्टः स्वपुत्रः काष्ठभार वहन्पृष्टश्च । किमेतदिति । स प्राह । तात । प्रातर्वने यामि । घटीं वा याम वा सर्व वा दिनमुपक्रम कुर्वे । तथाप्येक एव शिरोवाह्यः काष्ठभारः प्राप्यते । नाधिकः । एतावतापि' निर्वाहः स्यात् । मन्त्री स्वबुद्ध्या विचार्य विधिविलसितमन्यथा कर्तु प्राह । वत्स । यदि वने' चन्दनकाष्ठानां भारं प्राप्नोषि । तदा' तानि त्वया नेयानि । नापराणि । यदि न प्राप्यन्ते तानि ।Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51