Book Title: Story Of Merchant Champaka
Author(s): Johannes Hertel
Publisher: Johannes Hertel

Previous | Next

Page 24
________________ 52 53 54 24 (I) Story of Merchant Campaka. न्यपि स्वजनगृहे गता । साधुदत्तो ऽपि विक्रीतवस्तूग्राहणिकाये ? गतो ऽस्ति । अतो न कमपि तचाद्राचीत् । आवासमध्ये प्रविष्टस्तिलोत्तमानाम्नीं' कन्यां" कन्दुकक्रीडां कुर्वतीमेकाकिनीमेव " दृष्ट्वा तस्याः पुरो" लेखं मुमोच । सापि तं लेख " लात्वाश्वी" वाजिशालायां बनीत । यूयं बहिरास्थानमण्डप उपविशतेति" सविनयमुवाच । चम्पको ऽपि तत्तथा चकार । 14 अथ भवितव्यताया' नियोगात्तदा साम्येकाकिनी लेखमुन्मुद्यावाचयत् । दध्यौ च । अहो । तातेन चण्डालकर्म प्रारब्धम् । अयमीदृशो देवकुमाराकारोपमो ' रूपसौभाग्यवान्कथं मारणायाच प्रहितः । अयं चेन्मम वरः स्यात् । तदा वरम्' । ततो नवीन लेखममै तिलोत्तमाद्यैव सायं देयेति ताताचरसदृशाचरे: ' शीघ्रं लिखित्वा मुद्रयित्वा च शोषयित्वा च मातृपार्श्वगता " लेखमर्पयामास । 10 इतश्च साधुदत्तो वैकालिककरणाय समागतः । मया वृद्धिदत्तमहेभ्यस्य' लेखः समानीतो ऽस्तीति सप्रणामं चम्पकेन प्रोक्ते' सस्नेह गृहमध्ये समाकारयत्' । कौतुकदेव्यार्पितो लेखः । तदा च मिलितः सर्वो ऽपि वैकालिककरणाय' स्वजनवर्गः । साधुदत्तेन वाचितो बाढ़स्वरेणैव लेख: " । चम्पकस्य" रूपसौभाग्यादि दृष्ट्वा लेखार्थमवगत्य च हृष्टाः सर्वे स्वजना: " साधुदत्तादयः । ततञ्चम्पकेन सह कृतं वैकालिकम्" । ततो वेलास्तोकत्वे ऽपि " द्रव्यव्ययेन बहुना मिलितायां 18 सकलविवाहसामग्र्यां समागतेषु " क्षणेनापि परः सहस्रेषु परेषु प्रीढोत्सवेन कारितं द्वयोरपि पाणिग्रहणम । प्रातरागच्छन्ति स्म सहस्रशो वर्धापनकानि । 20 अत्रान्तरे वृद्धिदत्त: ' श्रेष्ठी स्वकार्य सिद्धमेव ' मन्यमानो हृष्टमनाः स्वपुराद्वर्धापन कनरागमनं ' समीहते यावत् । तावता केनापि चम्पातस्तचागतेन' सर्व यथावृत्तं प्रोक्तम् । ततश्च समुत्पन्नशिरःशूल व क्वापि क्षणमपि रतिमलभमानः स्वपुरमायातः । भोजनार्थमाकारितपरः सहस्रमहेभ्य सर्व पीरजनसंकुलं स्वगृहं वीच्य द्विगुणसंजातहृदयदाहः शीघ्रमेव भवदादिष्टं कृतं मयेति" निवेदयता" भ्रात्रा प्रणत: । तत आकारगोपनं विधाय श्रेष्ठी " स्वचित्ते भृशं " दूनो ऽपि तं भ्रातरं " प्रशशंस | निवृत्ते" वैवाहिके महे श्रेष्यन्यदा" भ्रातरं प्रति " 14

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51