Book Title: Story Of Merchant Champaka
Author(s): Johannes Hertel
Publisher: Johannes Hertel

Previous | Next

Page 22
________________ 22 (I.) Story of Merchant Campaka. अचान्तरे चोज्जयिनीवासिनी काचिदृद्धा केनापि कार्येण ग्रामान्तरं गता तेनैव पथा चलिता । तस्याः सार्थेनान्या अपि त्रिचतुराः स्त्रियः' तचायाताः । जीवन्तं बालकं दृष्ट्वा वृद्धा' प्राह ।10 धिक्केनापि चण्डालकर्मणासौ प्रमदा व्यापादिता । न चौराणामिदं कर्म सुवर्णाभरणानामग्रहणात्" । अथ अनाथचैत्योद्धरणम्' अनाथवृत्तिरक्षणम 43 महते पुण्यायेति बालममुं स्वपुत्रवत्यालयिष्यामि । तत आभरणानि दास्था' अभ्य उत्तार्य ग्रन्थी बद्धा बालक च लात्वोज्जयिनीमायाता वृद्धा । राज्ञः समग्रं वृत्तान्तं न्यवेदयच्च' । राजा प्राह । वृद्धे । मत्पुत्र वायं बालकस्त्वया पालनीयः । समग्रं स्वरूपं सर्वावसरज' च कथयेः । ततो राज्ञा दास्या अप्रिसंस्कारः कारितः । अथ च तस्य बालस्य' वृद्धया प्रौढोत्सवपूर्वकं चम्पक इति नाम दत्तम् । तस्य च सर्वामपि चिन्तां राजा चकार । लेखशालायां राज्ञा समहोत्सवं मुक्तः स्वल्पैरेव दिने: पूर्वपुण्यानुभावात ७२कलाकुशलो जातः । अन्यदा' लेखशालायामुक्तिप्रत्युक्तिचालनाप्रत्यवस्थानावसरे चम्पकेन निर्जितैः सवैलेखशालकैः सह कलहे जायमाने रे निष्पितृक । किं मिथ्या गर्व वहसीत्युक्ते किंचिद्नो मनसि स्वमन्दिरमागत्य जननी प्रति प्राह । अम्ब । किं मम पितुर्नाम । ततो वृद्धा सर्व स्वरूपं यथावृत्तमाख्यातवती । अथ यौवनं' प्राप्तः मापादेशात क्रयविक्रयादि कुर्वाण: स्वल्परेव दिनैश्चतुर्दशस्वर्णकोटीरुपार्जयत् । तस्य च गुणैरावर्जिताः सर्वे' व्यवहारिणो मित्रतामगुः ।। अन्यदा को ऽपि चम्पकस्य मिर्च व्यवहारी चम्पासमीपे क्वापि ग्रामे स्वपुत्रस्य जन्ययात्रायां यियासुः स्नेहतशम्पकं सहाकारयत् । प्राप्तास्तत्र जन्याः । इतश्च तत्र कन्यापित्रा मित्रत्वादाकारितो वृद्धिदत्तमहेभ्यो ऽपि समागात् । संजाते पाणिग्रहणमहे ऽद्यापि स्थितायां जन्यायामन्यदा पुरावहिर्वाप्यां दन्तधावनं कुर्वाणश्चम्पको वृद्धिदत्तमहेभ्येन दृष्टः । अचिन्ति च । को ऽयं देवकुमाराकारः । ततो द्वयो

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51