Book Title: Story Of Merchant Champaka
Author(s): Johannes Hertel
Publisher: Johannes Hertel

Previous | Next

Page 31
________________ IV. Story of Mahāsena. (I.) St. of Merch. Campaka concluded. 31 पश्चाद्गृहीतानि । अहो । अयमपि विप्रतारितः । इति सर्वजनहस्यमान:1 श्रेष्ठी महादुःखी जातो" वैराग्यात्तापसव्रत प्रपेदे । ततो महासेन:' स्वपुरं प्रति प्रस्थितः । कियता कालेन प्राप्तः स्वनगरम । जातः सुखी पञ्चरत्नप्रसादेन । अन्यदा तत्र देशे जातं द्वादशवार्षिकं दुर्भिक्षम' । क्षुधया' म्रियन्ते स्म बहवो लोकाः । प्रयाताः के ऽपि देशान्तरम् । कणमानकेनापि विक्रीयन्ते स्म पिचा सुता: । दृश्यन्ते स्थाने २' पतितामि रङ्ककलेवराणि । एवंविधे समये संजातानुकम्पो महासेनो दानश्रद्धयामण्डयत्सत्त्रागाराणि । भोज्यन्ते तत्र दीनानाथरङ्कादयः । ग्लानानां कार्यन्ते चिकित्साः । चतुर्दिशं वाद्यन्ते" वारितभोजनपरहा:12 । पूर्व महाधना अपि क्षीणधना:1 प्रच्छन्नधान्यमूटकाद्यर्पणेन साधारिताः । तदा चैका काचित्स्त्री निराधारा क्षुधया' संजातसर्वाङ्गशोफा तस्य सत्त्रागारे समायाता भुङ्क्ते स्म । परमबलानितया न जीर्यते भुक्तम् । जाता बाढं ग्लाना । संजातकरुणारसेन महासेनेन' स्वगृहे समानीता । निपुणवैद्यपात्किारिता प्रतिक्रिया' । जाता निरामयशरीरा । स्थाने २" महासेनमार्यापि गुणसुन्दरीनाम्नी दत्ते ऽनुकम्पादानम् । भोजयति स्वहस्तेन परिवेषिताहारेण दीनानाथादीन । 86 महासेनजीवो ऽनुकम्पादानप्रभावात्वं' चम्पकव्यवहारी जातः । गुणसुन्दरी मृत्वा तिलोत्तमा जाता । या वृद्धा स्त्री पालिता। सा मृत्वा संप्रत्येषा स्थविरा तव शैशवतो ऽपि स्नेहात्साराकीं जाता। वञ्चनामतिश्रेष्ठी तु तापसव्रतमाराध्य वृद्धिदत्तव्यवहारी' जातः । तव रत्नापहारात ९६ कोरिद्रव्यं तवार्पयत् । यतः । वहमारणअभिखन्दअदाणअवरधणविलोवणाईणं । सबजहन्नो उदो दसगुणिो इक्कसमयाणं ।। तदा च त्वया' वञ्चनामतेः पराभवः कृतः । तेनात्र वैरं जातम् । महासेनभवे त्वया कुलमदः कृतः । तेन त्वं काम्पील्यपुरे चिविक्रमश्रेष्ठिनो दास्था: पुचो जातः ।

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51