________________
( १९४) शांतस्य च माहात्म्यमाह ॥ न देवमिति ॥ लोकाः जिनवचनमेव चकुर्नेत्रं तेन रहिताः संतः एतानि वस्तूनि न विलोकंते । न पश्यति । नजानंतीत्यर्थः॥ किं किं न विलोकंते । ते देवं सर्वज्ञो जितरागादिरित्यादिलक्षणोपेतं न विलोकंते । पुनः अदेवं कुदेवं ये स्त्री शस्त्रादसूत्रादतिलक्षणोपेतं कुदेवं न विलोकंते । पुनः शुजगुरुं सुगुरुं शुझं प्ररूपकं गुरुं न जानंति । पुनः कुगुरुं पंचाचाररहितं उत्सूत्रप्ररूपकं नजानंति। पुनः धर्म अधर्मं च न जानंति ।ध
धिर्मयोरंतरं न विदंतीत्यर्थः॥ पुनः गुणपरिणथं गुणैः परिपूर्ण गुणवंतं न जानंति ॥ पुनर्विगुणं गुणरहितं निर्गुणं च न जानंति । गुणवंतं निर्गुणं च सदृशमेव पश्यति । पुनः कृत्यं करणीयं कर्तुं योग्य वस्तु न जानंति । पुनः अकृत्यं कर्तुमनुचितं श्रयोग्यं च न जानंति । कृत्याऽकृत्य विवेकं न जानंतीत्यर्थः ॥ पुनर्निपुणं सचातुर्य च सम्यग् यथास्यात्तथा श्रात्मनोहितं सुखकारणमपि न जानंति। पुनः श्रहितं च अशुजकारणं च न जानंति । जिनवचनश्रवणं विना शुजाऽशुजयोरंतरं न जानंति॥
...
.