Book Title: Siddhant Lakshan
Author(s): Ganeshopadhyay, Guru Prasad Shastri
Publisher: Mster Khelari Lal & Sons

View full book text
Previous | Next

Page 209
________________ सिद्धान्त - लक्षण - जागदोशी । जगदीशी गुण-कर्मान्यत्वविशिष्टसत्तासमवाये च जात्यधिकरणगुणानु योगिकत्वस्य - - विरहान्नातिप्रसङ्गः ॥ १९ ॥ २१४ जगदीशी सामान्यस्य [ यद्यनुयोगिता प्रत्याश्रयं नानैव, न त्वेकेत्यभिमतं तदा ] दण्डहेतुत्वे, - एतद्ण्डप्रतियोगिकसंयोगसामान्ये दण्डान्तराधिकरणी भूतयत्किचिद्वयक्त्यनुयोगिकत्वाभावादेवोभयाभावसत्त्वादतिव्याप्तिविरहः स्यादतो हेतौ - एतदिति [शि० २१२ पृ० ] । संयोगेन साध्यतायां निरुक्तपदस्य व्यावृत्तिमुक्तवा, - समवायेन साध्यतायां तामाह, - गुणकर्मान्यत्वेति । इदच समवायस्य [ अधिकरणभेदेनापि ] नानात्वमभिप्रेत्य तस्यैकत्वे तु तत्र गुणानुयोगिकत्व - विशिष्टसत्ता प्रतियोगिकत्वोभयसत्त्वेनातिव्याप्तितादवस्थ्यात् । यद्यपि‘यादृशप्रतियोगितावच्छेदकावच्छिन्ने' त्याद्युक्तौ, - ' वह्नि - धूमोभय विवृतिः हादिति वाच्यम् । उभयमतसाधारण्येनाव्याप्त्यनवकाशादिति - नव्याः । हेतुघटकैतत्पदप्रयोजनमाह - दण्ड सामान्यस्येति । तथा च 'चैत्रान्यत्वविशिष्टैतद्दण्डवान् दण्डादित्युक्तौ 'निरुक्त' पदपरित्यागेऽपि नातिव्याप्तिः, संयोगसामान्ये चैत्रान्यत्वविशिष्टदण्डाभावीय प्रतियोगित्वाश्रयै तद्दण्डप्रतियोगिकत्वसत्त्वेऽपि यत्किञ्चिद्ध त्वधिकरणीभूतं यच्चैत्र-मैत्रभिन्नदेवदत्तादिक तदनुयोगिकत्वविरहेणोभयाभावसत्वादत 'एतद्दण्डस्य' हेतुत्वानुसरणम्, तथा सति एतद्दण्डस्य हेतोरधिकरणं चैत्रो, मैत्रो वा नान्य इति - 'निरुक्त' पदपरित्यागेऽतिव्याप्तिरस्त्येवेत्याशयः । तामाहेति । निरुक्त पद परित्यागेऽतिव्याप्तिमाहेत्यर्थः । ननु समवायश्चैक एव तत्र च विशिष्टसत्तात्वावच्छिन्न प्रतियोगिकत्व - हेत्वधिकरण यत्किञ्चिद्गुणानुयोगिकत्वोभयोः सत्त्वेन साध्याभावस्य लक्षणाघटकत्वान्निरुक्तपदसत्त्वेऽप्यतिव्याप्तिवारणं न सम्भवतीत्यत आह- - इदश्चेति । निरुक्वातिव्याप्तिदानञ्चेत्यर्थः । तथा च समवायस्य नानात्वमभिप्रेत्यैव 'निरुक्त' पदाऽसत्त्वेऽतिव्याप्तेरभिधीयमानतया तत्सत्त्वे नास्त्यतिव्याप्तिरिति भावः । सम्बन्धमात्र एवोभयत्वावच्छिन्नप्रतियोगिकत्वं नास्तीत्याशयेन शङ्कते - यद्यपीति । १. २. [] एतदन्तर्गतः पाठो लिखितपुस्तके नास्ति ।

Loading...

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286