Book Title: Siddhant Lakshan
Author(s): Ganeshopadhyay, Guru Prasad Shastri
Publisher: Mster Khelari Lal & Sons

View full book text
Previous | Next

Page 247
________________ जागदोशी सिद्धान्त-लक्षणम् । ७ अर्थतत्कल्पे साध्यताघटकसम्बन्धावच्छिन्नाधिकरणत्वीयस्वरूपसम्बन्धेन प्रतियोगितावच्छेदकाश्रयाधिकरणत्वाभाववद्धत्वधिकरणवृत्त्यभावप्रतियोगितानवच्छेदक-यत् साध्यतावच्छेदकं तदवच्छिन्नसामानाधिकरण्यस्य व्याप्तित्वसम्भवे व्यर्थ 'साध्यतावच्छेदकतदितरे'त्यादिविशेषणमिति [ जा० ६ पृ.] । ___ न च घटत्वाभाववान् द्रव्यत्वादित्यादावतिव्याप्तिः, सर्वस्यैव हेतुमतः प्रति. योगितावच्छेदकीभूताभावत्वाश्रयाधिकरणस्वादिति वाच्यम् । साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नाधिकरणत्वीयस्वरूपसम्बन्धेन प्रतियोगि. तावच्छेदकाश्रयाधिकरणत्वाभावस्य विवक्षितत्वादिति चेन्न । व्याप्यरत्त्यव्याप्यवृत्तिसाध्यकस्थलसाधारणसाध्यतावच्छेदकतदितरेत्यादिविशे. षणखण्डनस्य सन्दर्भविरोधापत्तेरिति ध्येयम् ॥ १२॥ ___ अथ प्रतियोगितासम्बन्धेन महानसीयवह्नयादेः साध्यत्वे तदभावत्वादिहेतावव्याप्तिः, प्रत्येकेन महानसीयो नास्ति, वह्निर्नास्तीत्याद्यभावीयप्रतियोगितावच्छेदक. त्वस्यैव साध्यतावच्छेदके सत्त्वादिति चेन्न । ___ साध्यतावच्छेदकतदितरोभयानवच्छिन्नत्वपदेनानुमितिविधेयतावच्छेदकतात्वा. वच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितानवच्छेदकीभूतो योऽभावीयप्रतियोगितावच्छेदकतावावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदको धर्मस्तधर्मावच्छिन्ना. नुयोगिताकपर्याप्तिकसाध्यतावच्छेदकताविशिष्टावच्छेदकत्वानिरूपितत्वस्य प्रतियो. गितायां विवक्षितत्वादिति ।। साध्यतावच्छेदकतावैशिष्ट्यं च स्वावच्छेदकसम्बन्धावच्छिन्नत्व, स्वसामाना. धिकरण्यैतदुभयसम्बन्धेन, एवं च साध्यतावच्छेदकताघटकसम्बन्धावच्छिन्नत्वनिवेशस्य तत्रैव तात्पर्यमिति ॥ १३ ॥ ___ ननु साध्यतावच्छेदकतावृत्तिधर्मावच्छिन्नावच्छेदकत्वानिरूपितत्वस्य साधनवनिष्ठाभावप्रतियोगितायां निवेशनेनैवाव्याप्तिवारणात् किं शुद्धसाध्यतावच्छेदकक. स्थले विशिष्टसाध्यतावच्छेदककस्थले च [ जा० १६ पृ०.] द्विधा निवेशेन ? वृत्तित्वं च स्वावच्छेद्यस्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकभेदवत्त्वसम्बन्धेनेति चेन छ। ___ महानसीयवह्निमान् धूमादित्यादावतिव्याप्तिः, निरुक्तसम्बन्धेन वह्नित्वनिष्ठावच्छेदकतारत्ति यन्महानसीयत्वत्वं, तद्धर्मावच्छिन्नावच्छेदकतानिरूपितत्वस्य साध्याभावप्रतियोगितायां सत्त्वेन साध्याभावस्य लक्षणाघटकत्वात् । ____न च साध्यतावृत्तिधर्मावच्छिन्नावच्छेदकत्वानिरूपितत्वस्य हेतुमभिष्टाभाव. प्रतियोगितायां निवेशान्न दोषः, साध्यतावृत्तित्वं च स्वावच्छिन्नावच्छेदकत्वनिरूपि. तत्वसम्बन्धावच्छिमस्वनिष्ठावच्छेदकताकभेदवत्त्वसम्बन्धेनेति वाच्यम् । वृत्तिवह्नित्ववत्त्वान् धूमादित्यादौ महानसीयवह्निवृत्तित्वविशिष्टवदभावमादायाव्याप्तिरिति ॥१४॥

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286