Book Title: Siddhant Lakshan
Author(s): Ganeshopadhyay, Guru Prasad Shastri
Publisher: Mster Khelari Lal & Sons

View full book text
Previous | Next

Page 257
________________ जागदोशी सिद्धान्त-लक्षणम् । यदि च समानाधिकरणवृत्तित्वसम्बन्धेन पर्वतत्ववैशिष्ट्यं धूमत्वे भासते, तदा धूमत्वस्यावच्छेदकत्वमेव, तद्गतधर्मस्य विशेषणत्वे तस्योपलक्षणत्वाभावात् वैशिष्ट्यस्यावच्छेदकत्वम्, अत एव तस्य विशेषणत्वम्, उपलक्षितपुच्छलनविशेषणानङ्गी कारात् । वाच्यम्, अन्यत्र तादृशाधिकरणत्वाप्रसिच्या तदभावस्याप्रसिद्धेः, सिद्ध्यसिद्धिर्भ्यां तनिषेधानुपपत्तेः । न च धूमत्वेऽधिकरणतानिरूपकतावच्छेदकत्वाभावः साध्य इति सामान्यतोऽधिकरणतानिरूपकतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगिताच्छेदकत्वस्य यावत्ववृत्तितया तदभावस्य सामान्यधर्मावच्छिन्नाधिकरणतावादिनापि स्वीकारात् सिद्धसाधनापत्तेः । न च पर्वतनिष्ठाधिकरणतायाः निरूपकतावच्छेदकतत्त्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वाभाव एव धूमcandard साध्यत इति वाच्यम्, पर्वतेऽपि तादृशानन्ताधिकरणतायाः स निरुक्तावच्छेदकत्वाभावसाधने सिद्धसाधनापत्तेः । न च तन्निष्टयत्किञ्चिदधिकरणतानिरूपकतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वाभावएव साध्यते, अतो न सिद्धसाधनमिति वाच्यम्, यत्किञ्चित्वस्याननुगमात्, तन्निष्ठावयवादेर्यत्किञ्चिदधिकरणातामादायैव पुनः सिद्धसाधनतादवस्थ्यादिति चेन्न । अधिकरणतात्वसामानाधिकरणोभयावृत्तिधर्मावच्छिन्न निरूपकतानिरूपितनिरू प्यंतावन्निरूपकतावच्छेदकता त्वावच्छिन्नप्रतियोगिता कपर्याप्त्यनुयोगितावच्छेदकत्वाभाव धूमवनष्टे साध्यते । वस्तुतस्तु अधिकरणताविशिष्टान्यत्वं धूमत्वनिष्ठैकत्वे साध्यते, वैशिष्ट्यं च २६२ स्वनिरूपितनिरूपकतावच्छेदकतात्वावच्छिन्नप्रतिरोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन ग्राह्यमिति न कोपि दोष इति । नव्यास्तु सर्ववादिसिद्धायाः तत्तदधिकरणतानिरूपकतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्तेरेव प्रसिद्धतया तत एवोपपत्तौ पर्याप्तेः सामान्यतोऽधिकरणतानिरूपकतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकत्वस्यानङ्गीकारात्, तथा च धूमत्वनिष्ठैकत्वे अधिकरणतानिरूपकतावच्छेदकतात्वावच्छिन्न प्रतियोगिताकपर्याप्त्यनुयो• गितावच्छेदकत्वसामान्याभाव एव साध्यत इत्यर्थ एव ग्रन्थतात्पर्यमित्यवधे. यम् ॥ २७ ॥ *अथात्र सामान्यधर्मावच्छिन्नाधिकरणत्वाप्रसिद्धयापि हेतुतावच्छेदकनिष्टावच्छेदकताकनिरूपकतानिरूपिताधिकरणतामादायैव वह्निमान् धूमादित्यादौ लक्षणसमन्वयसम्भवे किं तादृशपारिभाषिकत्वानुशरणेन 8 [ जा० ३४-३६ पृ० ] | • न च 'द्रव्यं गुणकर्मान्यत्वविशिष्टसत्त्वादित्यादौ हेतुतावच्छेदकीभूतसत्ताव निष्ठावच्छेदकता कनिरूपकता निरूपिताधिकरणत्वस्य गुणे सत्त्वात्तत्राऽव्याप्तिरिति

Loading...

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286