Book Title: Siddhant Lakshan
Author(s): Ganeshopadhyay, Guru Prasad Shastri
Publisher: Mster Khelari Lal & Sons

View full book text
Previous | Next

Page 263
________________ २६८ जागदीशी-सिद्धान्त-लक्षणम् । तत्तद्वयक्तित्वमेव लाघवात् , न तत्तत्प्रतियोगित्वम् , तथा च संयोगत्वावच्छिसप्रतियोगितानिष्ठावच्छेदकताकप्रतियोगिताकाभावाप्रसिद्धया हेत्वप्रसिद्धिरिति वाच्यम् , जगदीशेन जातीतरस्य स्वरूपतो भानाङ्गीकारात् ,-स्वरूपतस्तत्तत्प्रतियोगित्वस्यैवावच्छेदकत्वस्वीकारात्, तदपेक्षया तद्वयक्तित्वस्यावच्छेदकत्वकल्पने लाघवा. नवकाशादिति । अथात्र प्रतियोगित्वनिष्ठावच्छेदकत्वं स्वरूपसम्बन्धावच्छिन्नं ग्राह्यम् , अन्यथा कालिकसम्बन्धावच्छिन्नप्रतियोगित्वनिष्ठावच्छेदकताकप्रतियोगिताकाभाववत्त्वस्यवृक्षादावसत्त्वेन स्वरूपासिद्धिप्रसङ्गः, न चानापि स्वरूपासिद्धिवारकविशेषणस्य वैयर्थ्यमिति वाच्यम् , यत्किञ्चित्सम्बन्धावच्छिन्नावच्छेदकत्वघटितलक्षणे व्यर्थविशेषणत्वाभावादिति । वस्तुतस्तु यदर्मावच्छिमप्रतियोगितात्वव्यापकसमुदायस्वविशिष्टाभाववत्त्वमेव हेतुः, व्यापकत्वञ्च स्वाश्रयाभावप्रतियोगितावच्छेदकत्वसम्बन्धेन बोध्यमिति ॥३५॥ ॐन चाभिघातत्वसमानाधिकरणतत्तदभिघातत्वावच्छिन्नाभाववति वृक्षेऽभि. घातसामान्याभावरूपसाध्यवति निरवच्छिन्नवृत्तिकत्वविशिष्टाभिघातयावद्विशेषाभावासत्त्वेनोपाधेः साध्याव्यापकत्वमिति वाच्यं, गुणविभाजकजातेरेव हेतुसाध्ययोः प्रविष्टत्वादिति जगदीशेनोक्तम् [जा० ५९ पृ.]। तन्न सङ्गच्छते, उपाधिदानार्थ गुणविभाजकजातिनिवेशस्यासङ्गतत्वादिति चेत्, न, गुणविभाजकजात्यवच्छिन्नाभावसाध्यकानुमाने उपाधिसत्त्वेन; गुणविभा. जकजात्यवच्छिन्नाभावस्य पक्षावृत्तित्वसिद्धौ, सामान्यतो जात्यवच्छिन्नाभाव. साध्यकानुमानस्य निरुपाधित्वेऽपि तद्वलाद्विशेषबाधेन सामान्यसिद्धौ सिद्धसाधनापत्तेर्दुरित्वात् , एवं सति संयोगत्वावच्छिन्नाभावसाध्यकानुमाने उपाधिदाने,संयोगाभावेतराभावसिद्धौ सिद्धसाधनापत्तिसम्भवे; गुणविभाजकजातिपर्यन्तप्रवेशो वृथेति विभावनीयम् , न च घटाद्यवच्छेदेन ज्ञानादिसामान्याभाववत्यात्मनि निरवच्छिन्नत्तिकतदीययावद्विशेषाभावासत्त्वादुपाधेः साध्याव्यापकत्वमिति वाच्यम् , साध्यघटकगुणविभाजकजातेः 'सविषयकात्तित्वेनापि' विशेषणीयत्वादिति ध्येयम् । इदं तु चिन्त्यते, वक्ष्यमाण यत्त्वादिकल्पे रूपाद्यवृत्तित्वेन जातिविशेषणेनैव सामञ्जस्ये तत्कल्पस्य परित्यागानौचित्यमिति ॥ ३६ ॥ ख्यत्वेकावच्छेदेनेत्यस्य = परस्परानवच्छेदकानवच्छिन्नवृत्तिकत्वविशिष्टेनेत्यर्थमाह, तच्चिन्त्यमिति जगदीशः [पृ० ६० जा०] । तस्यायमाशयः,-निरवच्छिन्नवृत्तिकस्वविशिष्टतदीययावद्विशेषाभाववत्त्वस्योपा. धित्वे कपिसंयोगाभावमादायोपाधिसाध्यव्याप्ती व्यभिचारमाशङ्कय,-गुणविभाजक

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286