Book Title: Siddhant Lakshan
Author(s): Ganeshopadhyay, Guru Prasad Shastri
Publisher: Mster Khelari Lal & Sons

View full book text
Previous | Next

Page 260
________________ - काली-शङ्करी-विवेचना । २६५ हेतुतावच्छेदकं च-नित्यज्ञानावृत्तिविषयिताशून्यज्ञानवृत्तिहेतुतावच्छेदकाव. च्छिन्नप्रकारतावच्छेदकत्वेन विवक्षणीयमित्यतो 'द्रव्यं घटत्वपटत्वोभयस्मादित्यादिहेतौ नातिव्याप्तिरिति कश्चित् । ___ हेतुतावच्छेदकावृत्तिधर्म एव हेतुतावच्छेदकावच्छिन्नाधिकरणेत्यनेन विवक्षितः, वृत्तित्वं च स्ववृत्यभावप्रतियोगितावच्छेदकत्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकभेदवत्वसम्बन्धेनेत्यपि कश्चित् ॥ २९ ॥ - “परितः प्रतियोग्युपलब्धेर्दोषाद्वा वृक्षे न संयोग इति नाध्यक्षमिति" दीधितिः। “परितः सर्वावयवावच्छेदेन प्रतियोगिग्रहात्मकदोषाद्वेत्यर्थः । न चैवमपि प्रतियोगिग्रहोत्पत्तिदशायां तत्प्रत्यक्षं दुर्वारम् , प्रतियोग्युपलम्भकसामग्या अपि दोषत्वोपगमादिति” जगदीशः [ ४६-४७ पृ० ] ® । तस्यायमाशयः,तत्पुरुषीयसंयोगाभावत्वावच्छिन्नलौकिकप्रकारताशालिप्रत्यक्षं प्रति तत्पुरुषीयसंयोगत्वावच्छिन्नलौकिकप्रकारताशालिज्ञानत्वेन प्रतिबन्धकत्वमनुभवसिद्धम्, प्रतिबध्यस्य विशेषणत्वं, प्रतिबन्धकस्य विषयीभूतसंयोगवत्वं सम्बन्धः। न च द्रव्ये संयोगाभावप्रत्यक्षस्य कस्याप्यनुत्पत्त्या ईश्वरज्ञानसाधारणज्ञान. त्वेनैव प्रतिबन्धकत्वं युक्तम्, तथा च प्रतियोगिग्रहदशायां नापत्तिरिति वाच्यम्, तथा सति 'परितः प्रतियोग्युपलब्धेर्दोषाद्वे'त्यनेन दोषोत्कीर्तनस्य वैफल्यापत्या तादृशरीतिमनुरुध्य भट्टाचार्यव्याख्यानस्यानुपादेयत्वादिति दिक् ॥ ३० ॥ ___“यो यजातिसमानाधिकरणोभयारत्तिधर्मावच्छिन्नयत्सम्बन्धावच्छिन्नप्रतियो. गिताकयावदभाववान् स तजात्यवच्छिन्नतत्सम्बन्धावच्छिन्नप्रतियोगिताकाभाववानिति” जगदीशेनोक्तम् ® [ जा० ४८ पृ०] । न चात्र यजातिसमानाधिकरणोभयावृत्तिप्रतियोगिताकयावद्विशेषाभाववस्वस्य सम्यक्त्वे,-उभयावृत्तिधर्मावच्छिन्नत्वनिवेशनवैयर्थ्यमिति वाच्यम्, स्वरूपसम्बन्धा. त्मिकायाः प्रतियोगितायाः प्रतिव्यक्तिभेदेन भिन्नतया, सत्तागुणत्वावच्छिन्नाभावामा. दाय स्वरूपासिद्धिप्रसङ्गात् । न च तथापि प्रतियोगितासम्बन्धेन यजातिसमानाधिकरणोभयावृत्त्यभाववत्त्वस्य हेतुत्वसम्भवे तनिवेशस्य वैयर्थ्यमिति वाच्यम्, समनियताभावयोरैक्यमते व्यभिचारापत्तेः, तटीयरूपरसादेः समानकालोत्पनविनष्टस्व योऽभावस्तस्य रूपत्वसमानाधिकरणोभयावृत्त्यभावानन्तर्गततया तदन्ययावद्विशेषा. भावस्य तहट एव सत्त्वेन तत्र रूपत्वावच्छिनाभावासत्त्वादिति ॥ ३१ ॥ “जात्युपादानाद् गुरुधर्मस्य प्रतियोगितानवच्छेदकत्वेऽपि न व्यभिचार इति" जगदीशः । [४९ जा.] अत्र यधर्मसमानाधिकरणोभयावृत्तिधर्मावच्छिन्नयत्सम्बन्धावच्छिन्प्रतियोगिताकामाववृत्तियावत्त्वस्यानुगतानतिप्रसक्तधर्मान्तरेण निवेशयितुमशक्यत्वेन ताह. शाभावत्वब्यापकस्वेन निवेश एवं कार्यः।

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286