Book Title: Siddhant Lakshan
Author(s): Ganeshopadhyay, Guru Prasad Shastri
Publisher: Mster Khelari Lal & Sons

View full book text
Previous | Next

Page 256
________________ काली-शङ्करी-विवेचना। २६१ तथा हि सत्तागुणत्वादिजातेरप्यनवच्छेदकत्वसम्भवेनाव्याप्त्यभावेनाव्याप्तिसम्पादकतया तादृशविशेषणं वक्तव्यं सङ्गच्छते । तादृशविशेषणदानेऽपि रूपवति नीलो नास्ति, पोतो नास्तीतिवत् नीलसन्नास्ति, नीलगुणो नास्तीतिप्रतीतिसिद्धाभावमादाय सत्तागुणत्वादेरपि अवच्छेदकत्वसम्भवेन तादृशविशेषणदानस्यानौचित्यापत्तेः। प्रतियोग्यंशे साक्षादभातस्याऽपि उपलक्षणत्वमङ्गीकार्यमिति सत्तादेरनवच्छेदकत्वे तादृशविशेषणं सार्थकमिति पूर्वकल्पे व्यावर्तकसाधारणस्य उपलक्ष. णस्याङ्गीकारः, 'यदि चे'त्यादिकल्पे 'अव्यावर्तकस्योपलक्षणत्वं, न तु व्यावर्तकस्यति ग्रन्थस्य तात्पर्यार्थ इति दण्डत्ववत्तन्नास्तीति प्रतीतिसिद्धाभावमादायाच्याप्रनु. द्वारादिति । परे तु यस्योपलक्षणत्वस्वीकारे अतिप्रसकधर्मे नावच्छेदकत्वं, तस्य तत्वस्य उपलक्षणत्वे अतिप्रसक्तस्य दण्डत्वस्यावच्छेदकत्वस्वीकारापत्तेरित्युपलक्षणत्वं तत्तायास्तत्र न सम्भवतीति प्राहुः ॥ २५ ॥ ___ विषयितया रूपत्ववज्ज्ञानाभावमादाय रूपवान् पृथिवीत्वादित्यादावव्याप्तिवारणार्थ साध्यतावच्छेदकताघटकसम्बन्धावच्छिन्नावच्छेदकत्वं निवेशितम्छ। [२४पृ०] न च तादृशरीत्या 'वह्निमान् धूमादित्यादावव्याप्तिसम्भवे तत्स्थलत्यागानौचित्यमिति वाच्यम्, अग्रे विवक्षणीयसाध्यतावच्छेदकसम्बन्धेन प्रतियोगिवैयधि. करण्यस्य संयोगेन ज्ञानाधिकरणाप्रसिद्या न सम्भवः । न च घटपटाद्यनुयोगिक कालिकसम्बन्धेन वह्नित्वविशिष्टस्याभावमादाय तत्राव्याप्तिर्भविष्यतीति वाच्यम् , विशेषरूपेण संसर्गतानभ्युपगमात् ।। ___ अत्र ज्ञानत्वस्य नावच्छेदकत्वकोटौ निवेशो, नातः प्रतियोगितायाः साध्यता. वच्छेदक-तदितरोभयानवच्छिन्नत्वहानिः, विषयितासम्बन्धेनापि रूपत्वादेःस्वरूपतो भानाङ्गीकारेण च-न वा तनिष्ठावच्छेदकताया निरवच्छिन्नवहानिः ॥२६॥ 8 “यद्यप्यवश्यं क्लप्ताभिः पर्वतत्वचत्वरत्वादितत्तद्धर्मविशिष्टधूमत्वावच्छिन्ना. धिकरणताव्यक्तिभिरेव धूमवानिति प्रतीत्युपपत्तौ सामान्यधर्मावच्छिन्नाधिकरणतायां मानाभाव" इति जगदीशः « [जा० पृ० ३३]। ___ अथात्र पर्वतत्वविशिष्टधूमस्वावच्छिन्नाधिकरणतावगाहिप्रतीतौ पर्वतत्ववैशिष्ठ्यं यदि धूमे भासते, तदा तस्यैवावच्छेदकत्वेनैवोपपत्तौ धूमत्वस्योपलक्षणताया एवोचितत्वेन धूमादिनिष्ठनिरूपकतानिरूपिताधिकरणताव्यतिभिरेव धूमवानिति प्रतीतेः प्रमात्वोपपत्तौ विशिष्टधूमत्वस्यावच्छेदकत्वकथनविरोध इति चेन्न, एकधर्माव. च्छिन्नाधिकरणतानामैक्यमते घान्यत्वविशिष्टद्रव्यत्ववानिति ज्ञानीयघटभेदावच्छिन्नधूमनिष्ठनिरूपकतानिरूपिताधिकरणताया हदेऽपि सत्वात्तमादाय 'इझे धूमवा'निति प्रतीतेः प्रमात्वापत्तेरिति ध्येयम् ।

Loading...

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286