Book Title: Siddhant Lakshan
Author(s): Ganeshopadhyay, Guru Prasad Shastri
Publisher: Mster Khelari Lal & Sons

View full book text
Previous | Next

Page 254
________________ २५8 काली- शङ्करी- विवेचना । यद्यपि साध्यतावच्छेदकतावृत्तिभेदप्रतियोगितावच्छेदकं यत् तदनवच्छिन्नावच्छेदकत्वनिवेशने न कोऽपि दोषः, भेदप्रतियोगितावच्छेदकत्वमवच्छिन्नत्वसम्बन्धेन बोध्यं, तथापि ' जातिमत्त्वान् वाच्यत्वा' दित्यादावतिव्याप्तिः, साध्यतावच्छेदकताटत्तिप्रमेयवद्भेदप्रतियोगितावच्छेदकत्वस्य जातित्वेऽनपायात्, साध्याभावस्य लक्षणाघटकत्वादिति । न च साध्यतावच्छेदकतावृत्तिभेदप्रतियोगितावच्छेदकत्वं यद्रूपेण तदवच्छिन्नावच्छेदकत्वं विवक्षितमित्यादिरीत्या न कोऽपि दोष इति वाच्यम्, 'जातिमत्त्वान् वाच्यत्वा' दित्यादावतिव्याप्तिरवच्छिन्नत्वसम्बन्धेन तज्जातिमद्भेदस्यापि साध्यतावच्छेदकतायां सत्त्वादिति ध्येयम् । न च महान सीयवह्निवृत्तिजातित्वस्य द्रव्यत्वादावपि सत्त्वेन प्रतियोगितायां कथं साध्यतावच्छेदकतदितरोभयानवच्छिन्नत्वमिति वाच्यम्, 'महानसीयवह्निवृत्तित्वविशिष्टवह्नित्ववान्नास्तीति प्रतीतिसिद्धाभावमादायाव्याप्तेर्दातव्यत्वात्, महानवह्निवृत्तित्वस्य वह्नित्वप्रतियोगिकसमवायसम्बन्धावच्छिन्नस्य निवेशे, ग्रन्थकृदुक्तप्रतीतिसिद्धाभावमादायाव्याप्तिदाने क्षत्यभावाच्च । न च महानसीयवह्निवृत्तित्वविशिष्टजातिमद्वह्निर्नास्तीति प्रतीतिसिद्धाभावमादाय तथा व्याप्तेर्दुरुद्धरत्वापत्तिः, तत्र वह्नित्वस्य निरवच्छिन्नावच्छेदकता सत्त्वादिति चाच्यम् । अर्वाच्छन्नावच्छेदकत्वानिरूपकत्वस्य 'प्रतियोगितायां' निवेशितत्वात् । वस्तुतस्तु तादृशप्रतीतिसिद्धाभावीयाया अवच्छेदकताया अवच्छिन्नत्व-निरवच्छिन्नत्वेन द्विविधायाः स्वीकारे प्रमाणाभावेन अवच्छिन्नावच्छेदकतया वह्निवे सत्त्वेनाव्याप्तिवारण सम्भवात् । अथ विशिष्टसाध्यतावच्छेदककस्थले 'घटे पटसमवेतत्वविशिष्टजातिमान्नास्तीति प्रतीतिसिद्धाभावमादाय 'समवेतत्वविशिष्टजातिमत्त्वान् घटत्वादित्यादौ समवे तत्वेन समवेतसामान्यस्य साध्यतावच्छेदकत्वेन, - पटसमवेतत्वस्यापि साध्यताव - च्छेदकत्वादव्याप्तेरनुद्वारापत्तिरिति चेत्, अत्र के चित्, -ग्रन्थकृता रीतेः प्रदर्शितत्वेन विशिष्टसाध्यतावच्छेदकतावच्छेदककस्थले साध्यतावच्छेदकतावच्छेदकतावच्छेदक-तदितरोभयान वच्छिन्नत्वस्य प्रतियोगितावच्छेदकतावच्छेदकतायां निवेशितत्वेन, पटनिरूपितत्वतदितरेण समवेत - स्वनिष्ठप्रतियोगितावच्छेदकताया अवच्छेदात् तादृशाव्याप्तिवारणं सम्भवतीति । अत एव 'दण्डिमान् दण्डिसंयोगा' दित्यादौ तद्व्यक्तिवृत्तिदण्डत्ववद्दण्डो नास्तीतिप्रतीतिसिद्धाभावमादायान्याप्तिरिति पूर्वपक्षो निरस्तः, तत्राऽपि शुद्धसाध्यतावच्छेदकतावच्छेदककस्थले प्रतियोगितावच्छेदकतावच्छेदकतायां निरवच्छिनत्वनिवेशादयाहुः ॥

Loading...

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286