Book Title: Siddhant Lakshan
Author(s): Ganeshopadhyay, Guru Prasad Shastri
Publisher: Mster Khelari Lal & Sons

View full book text
Previous | Next

Page 255
________________ २६० जागदीशी-सिद्धान्त-लक्षणम् । अपरे तु अवच्छेदकतावच्छेदकसाधारणावच्छेदकतायाः स्वीकारेण यथोक्तस्थलद्वये पटनिरूपितत्वस्य, तब्यक्तिवृत्तित्वस्य च साध्यतावच्छेदकतावच्छेदकेतरस्य प्रतियोगितावच्छेदकत्वात्, तादृशाभावस्याव्याप्तिसम्पादकत्वाभावान काप्यनुप. पत्तिरिति । न चावच्छेदकतावच्छेदकसाधारणावच्छेदकतास्वीकारे साध्यतावच्छेदकतदितरोभयानवच्छेद्यत्वनिवेशेनैव सर्वोपपत्ती, अवच्छेदकतायां शुद्धसाध्यतावच्छेदककस्थले निरवच्छिन्नत्वस्य, विशिष्टसाध्यतावच्छेदककस्थले तादृशोभयानवच्छिन्नत्वस्य च वैयापत्तिरिति वाच्यम् , प्रतियोगितानिरूपितावच्छेदकता नावच्छेदकसाधारणी, किन्तु 'प्रतियोगितावच्छेदकतावच्छेदकता अवच्छेदकतावच्छेदकसाधारणीति मते तादृशग्रन्थप्रतिपादनमित्याहुः ॥ २३ ॥ ___ अथ तद्वान्नास्तीति प्रतीतिसिद्धाभावमादाय दण्डिमान् दण्डिसंयोगदित्यादावव्याप्तिवारणमशक्यमेव, तत्र दण्डनिष्ठावच्छेदकताया दण्डत्वानवच्छिन्नत्वेन तादृशो. भयानवच्छिन्नस्वादिति चेदत्र वदन्ति, तादृशोभयानवच्छिन्नत्वपदेन साध्यतावच्छेद. कतावच्छेदकेतरानवच्छिन्नत्वस्य विवक्षितत्वात्, विशिष्टसाध्यतावच्छेदककस्थलेऽपि निरवच्छिन्नघटत्वनिष्ठावच्छेदकताकाभावमादायैव लक्षण त्य सङ्गमनीयत्वेन क्षत्य. भावात् । न च 'दण्डिमान् दण्डिसंयोगादित्यादौ अग्रे विवक्षणीयसाध्यतावच्छेद. कताघटकसंयोगावच्छिन्नावच्छेदकताकाभावाप्रसिद्धेरिति वाच्यम् , वद्वित्वप्रतियोगिकसमवायेन साध्यतावच्छेदककस्थले साध्यतावच्छेदकताघटकसम्बन्धावच्छिन्नावच्छे. दकत्वाप्रसिद्धिभिया विवक्षणीयस्य साध्यतावच्छेदकताघटकसम्बन्धावच्छिन्नावच्छे. दकत्वीयस्वरूपसम्बन्धावच्छिन्नावच्छेदकत्वाभावस्य निविष्टत्वेन क्षत्यभावात् । वस्तुतस्तु साध्यतावच्छेदकताघटकसम्बन्धावच्छिन्नावच्छेदकत्वं तथा निर्वाच्यं, यथाऽवच्छेदकत्वस्य घटत्वादावपि सम्भव इति ॥ २४ ॥ ® तत्ताया उपलक्षणत्वमङ्गीकृत्य, जात्यखण्डोपाध्यतिरिक्तदण्डादिनिष्ठावच्छेदकतायामपि निरवच्छिन्नत्वमङ्गीकृतम्, दण्डत्वस्याव्यावर्तकत्वेन सुतरामुपलक्षणत्व. मिति रीत्या 'दण्ड्यादौ सांध्ये' [२२-२३ पृ. जा] इत्युत्थानं कृतम् । ___ अथ तत्ताया उपलक्षणत्वमत एव परम्परया दण्डत्वे साध्यतावच्छेदकत्वस्वीकार इति प्रणयने परम्परया दण्डत्वविशिष्टं तन्नास्तीतिप्रतीतिसिद्धाभावमादाय तत्राव्याप्तिर्दुर्वारैव, तत्ताया उपलक्षणत्वेन तादृशप्रतियोगितायाः साध्यतावच्छेदक्त. दितरोभयानवच्छिन्नत्वादिति चेदन कश्चित्, प्रतियोग्यंशे साक्षाज्ज्ञातस्य उपलक्ष. णत्वं नाङ्गीक्रियते, किन्तु-अवच्छेदकांशे ज्ञातस्यैवेति नोक्तापत्तिरित्याह । तन्न । अस्य रूपत्वन्यूनटत्तिजातिमत्त्वान् रूपादित्यादावव्याप्तिदाने साध्यतावच्छेदके रूपत्वन्यूनवृत्तित्वविशेषगस्य वैयापत्तेः ।

Loading...

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286