Book Title: Siddhant Lakshan
Author(s): Ganeshopadhyay, Guru Prasad Shastri
Publisher: Mster Khelari Lal & Sons

View full book text
Previous | Next

Page 250
________________ काली-शङ्करी-विवेचना। ૨૫૫ ननु कालिकेन महानसानुयोगिकसंयोगविशिष्टस्य समवायेन वह्वित्वविशिष्टस्य साध्यतायां धूमादिहेतौ, समवायेन महानसानुयोगिकसंयोगविशिष्टस्य कालिकेन वतित्वविशिष्टस्याभावमादायाव्याप्तिस्तादृशप्रतियोगितायाः तादृशावच्छेदकत्वव्यापकत्वात् । ___ न च हेत्वधिकरणस्यैव स्वप्रतियोगितावच्छेदकताघटककालिकेन महानसानु. योगिकसंयोगविशिष्टं यत् तादृशसमवायसम्बन्धेन वह्नित्वविशिष्टं, तदधिकरणत्वात् तादृशाभावस्य प्रतियोगिव्यधिकरणत्वाभावान्नाव्याप्तिरिति वाच्यम् । समवायेन महानसानुयोगिकसंयोगविशिष्टं कालिकेन वह्नित्वविशिष्टं यत् , तस्य साध्यतायां धूमादिहेतावतिव्याप्तिवारणार्थ प्रतियोगिवैयधिकरण्यस्य विशिष्य निवेशनीयत्वात् । विशेषस्तु-प्रतियोगितावच्छेदकतात्वव्यापकं यदधिकरणत्वं तदधिकरणस्वा. भाववद्धत्वधिकरणत्तित्वमभावे निवेशनीयम् । व्यापकत्वं तु-स्वनिरूपकतावच्छेदकतावत्त्वसम्बन्धेन, स्वमधिकरणत्वम् , स्वनिरूपकतावच्छेदकतावत्त्वं च स्वावच्छेदक सम्बन्धावच्छिन्नख, स्वसामानाधिकरण्य, स्वानवच्छेदकानवच्छिन्नत्व, स्ववृत्तित्वैत. चतुष्टयसम्बन्धेन, स्वमधिकरणतानिरूपकतावच्छेदकत्वेनाभिमतं, स्ववृत्तित्वं चस्वानवच्छेदकानवच्छेद्यत्वसम्बन्धेन, अत्र स्वंप्रतियोगितावच्छेदकत्वेनाभिमतम् । ____ अत्र ब्रूमः-साध्यतावच्छेदकत्वविशिष्टप्रतियोगित्वान्यप्रतियोगिताकाभाव एवं लक्षणे निवेशनीयः, साध्यतावच्छे दकतावैशिष्ट्यं स्वसामानाधिकरण्य, स्वनिष्ठभेद. प्रतियोगितावच्छेदकत्वैतदुभयसम्बन्धेन । स्वपदं साध्यतावच्छेदकस्वपरम् , साध्य. तावच्छेदकत्वसामानाधिकरण्यं तु स्वावच्छेदकत्वसम्बन्धेन, स्वं प्रतियोगित्वं, भेदप्रतियोगितावच्छेदकत्वं च स्वावच्छेदकतावत्त्वसम्बन्धेन, स्वं प्रतियोगित्वं, स्वावच्छेदकतावत्त्वं च स्वावच्छेदकसम्बन्धावच्छिन्नत्व, स्वसामानाधिकरण्य, स्वानवच्छेदकानवच्छिन्नत्व, स्ववृत्तित्वैतच्चतुष्टयसम्बन्धेन, स्वं प्रतियोगितावच्छेदकत्वं, स्ववृत्तित्वं च स्वानवच्छेदकानवच्छिन्नत्वसम्बन्धेन, स्वं = साध्यतावच्छेदकत्वम् इत्येतादृशविवक्षायां न प्रागुक्तदोष इति । ___ साध्यतावच्छेदकतदितरोभयावच्छेद्यत्वनिवेशेऽपि महानसीयवह्वेः प्रतियोगितासम्बन्धेन साध्यतायां तदभावत्वादिहेतौ प्रत्येकेन महानसीयाभावं, वह्यभावं चादायाव्याप्तिरतस्तद्वारणाय हेतुसमानाधिकरणाभावप्रतियोगितायां साध्यतावच्छे. दकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितानवच्छेदकीभूतधर्मावच्छिन्नानुयोगिताकपर्याप्तिप्रतियोगितावच्छेदकीभूतावच्छेदकतात्ववत्साध्यतावच्छेदकनिष्ठावच्छेद - कत्वानिरूपितत्वस्य साध्यतावच्छेदकतदितरेत्यनेन विवक्षितत्वादिति ध्येयम् ॥१६॥ ® महानसीयवाभावमादायाव्याप्तिवारणाय प्रकृतानुमितिविधेयतावच्छेदकतापर्याप्त्यवच्छेदकीभूतधर्मावच्छेदेन प्रतियोगितावच्छेदकतापर्याप्त्यनधिकरणत्वं

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286