Book Title: Siddhant Lakshan
Author(s): Ganeshopadhyay, Guru Prasad Shastri
Publisher: Mster Khelari Lal & Sons

View full book text
Previous | Next

Page 249
________________ जागदीशी- सिद्धान्त-लक्षणम् । साधावन्निरूपितावच्छिन्नवृत्तिकान्यत्वविरहात्, कपिशून्यहेत्वधिकरणे वक्ष्यमाणप्रतिमा पधिकरणत्वाच्च । इत्थं च तादृशदोषवारणाय प्रतियोगितायां साध्यतावच्छेदकतदितरोभयान वच्छिन्नत्वस्य सामानाधिकरण्यसम्बन्धेन कपिप्रतियोगिकत्व - विशिष्ट संयोगत्वावच्छिन्नाभावमादायाव्याप्तिवारणाय निरवच्छिन्नावच्छेदकत्वस्य निवेशे लावघानवकाशात् । प्रत्युत यथोक्तगुरुतरविशेषणदानेन गौरवमिति । केचित्तु द्रव्यवृत्तित्वविशिष्टगगनाभावाभाववान् जातेरित्यादावतिव्याप्तिस्तत्र साध्याभावस्य विशिष्टगगनाभावानतिरिक्तस्य गगनाभावस्य गुणवृत्तित्वेन प्रतियोगिताया लक्षणाघटकत्वादित्याहुः । २३५५४ यदि पुनः साध्यवन्निरूपितं यद्विशेषणताविशेष सम्बन्धावच्छिन्नाधेयत्वं, तदवच्छेदकीभूतं यदनुयोगित्वं तन्निरूपित प्रतियोगितानिरूपितं यत् साध्यतावच्छेदकनिष्ठावच्छेदकत्वं तदनिरूपकत्वस्य प्रतियोगितायां निवेशेन नोक्तदोषाणामवकाश इति विभाव्यते, तदा द्रव्यत्वाद्यात्मकाभावमादाय प्रमेयवान् वाच्यत्वादित्यादावव्याप्तिर्द्रष्टव्या । न च विशेषणताविशेषसम्बन्धावच्छिन्नेत्यत्र स्वप्रतियो. गिमत्ताग्रहविरोधिताघटकसम्बन्धावच्छिन्नेति वक्तव्यमतो नोक्तदोष इति वाच्यम् तथापि कपिसंयोगस्वरूपाभावमादाय तत्रैवाव्याप्तिसम्भवादिति ॥ १५ ॥ 1 रूपवान् पृथिवीत्वादित्यादौ विषयितया रूपत्ववज्ज्ञानाभावमादायान्याप्तिवारणार्थं प्रतियोगितायां साध्यतावच्छेदकताघटकसम्बन्धावच्छिन्नावच्छेदकता. निरूपितत्वं जगदीशेन निवेशितम् [ जा० २४ पृ० ] | अत्रेयमाशङ्का -कालिकेन धूमत्वादिविशिष्टस्य संयोगेन साध्यतायां वन्ह्यादिहेतौ, समवायेन धूमत्वविशिष्टस्य कालिकेन तद्विशिष्टस्याभावमादायाव्याप्तिः तादृशप्रतियोगितायाः साध्यतावच्छेदकताघटककालिकसम्बन्धावच्छिन्नावच्छेदकतानिरूपि तत्वात् । न च साध्यतावच्छेदकताघटक संसर्गतावच्छेदकतापर्याप्त्यनुयोगितानवच्छेद कीभूतधर्मावच्छिन्नपर्याप्तिकावच्छेदकतानिरूपित संसर्गताकावच्छेदकत्वानिरूपितत्वनि'वेशेन नाव्याप्तिरिति वाच्यम् । कालिकेन महानसानुयोगिक संयोगविशिष्टस्य समवायेन वह्नित्वविशिष्टस्य साध्यतायां धूमादिहेतौ, समवायेन वह्नित्वविशिष्टस्य समवायेन महानसानुयोगिकसंयोगविशिष्टस्याभावमादायान्याप्तिः, तादृशप्रतियोगितायां तादृशावच्छेदकत्वानिरूपितत्वात् । अत्रोच्यते - हेतुसमानाधिकरणाभावप्रतियोगितायां, - साध्यतावच्छेदकताघटकसंसर्गतावच्छेदकता पर्याप्त्यवच्छेदकत्वव्यापकत्वनिवेशेन न दोषः । व्यापकता च स्वावच्छेदकता घटकसंसर्गतावच्छेदकता पर्याप्त्यवच्छेदकत्वसम्बन्धेन स्वं प्रतियोगित्वं, व्याप्यत्वं तु स्वरूपसम्बन्धेन । 9 XXX ,

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286