Book Title: Siddhant Lakshan
Author(s): Ganeshopadhyay, Guru Prasad Shastri
Publisher: Mster Khelari Lal & Sons

View full book text
Previous | Next

Page 230
________________ विवृति-दीपिकालङ्कता। २३५ दीधितिः प्रतियोगित्वादिश्च स्वरूपसम्बन्धविशेषो, न तु सम्बन्धत्वेन निविष्टः, जागदीशी ननु स्वरूपसम्बन्धविशेषात्मकप्रतियोगित्वस्य विशिष्टधीजनकत्वरूपसम्बन्धताघटकनियमघटितत्वादात्माश्रयत्वमत आह, * प्रतियोगित्वादिरिति *।-आदिनाऽ[नुयोगित्वनिरूपितत्ववृत्तित्वाऽ]वच्छेदकत्वपरिग्रहः। * न तु सम्बन्धत्वेनेति ।-प्रतियोगितात्वादिधर्मान्तरप्रकारेण विटतिः 'प्रतियोगित्वादिश्चे'त्याद्युस्थितौ बीजमाह-नन्विति । आत्माश्रयत्वमिति । स्वघटितत्वेनापादकेन स्वस्मिन् स्वभिन्नत्वापादनमित्यर्थः, तथा च 'निरुक्तव्यापकता यदि निरुक्तव्यापकता घटिता स्यात्तदा स्वभिन्ना स्यात्' इत्यापत्तिरेवात्रात्मा. श्रयपदेन विवक्षितेति भावः। __पक्षीभूतायां निरुक्तव्यापकतायां निरुक्तव्यापकताघटितत्वरूपापादकसत्तां प्रदयति-स्वरूपसम्बन्धेति । तथा च प्रतियोगिताधर्मिकोभयाभावघटितलक्षणघटकप्रतियोगित्वं स्वरूपसम्बन्धत्वेनैव प्रविष्टं, तादृशसम्बन्धत्वञ्च विशिष्टधोव्याप. कताविशिष्टानन्यथासिद्धत्वरूपविशिष्टधीजनकतात्मकं, निरुक्तजनकत्वरूपसम्बन्धत्वघटकव्यापकत्वञ्च प्रतियोगिताधर्मिकोभयाभावघटितव्यापकत्वस्वरूपमेव, अन्यस्य दुर्वचत्वात् , एवञ्च निरुक्तव्यापकत्वस्य प्रतियोगिताघटिततया तनिष्ठसम्बन्धत्वघटकीभूतं यनिरुक्तव्यापकत्वं,-तडटितत्वेन स्वघटितत्वरूपापादकस्य स्वस्मिन् विद्यमानतया तत्र स्वभिन्नत्वापादनमात्माश्रयप्रसङ्ग इति भावः ।। आदिपदग्राह्यमाह-आदिनेति । तादृशञ्च प्रतियोगित्वादिकं प्रतियोग्यादि. स्वरूपं, प्रतियोगितावच्छेदकादिस्वरूपं वेत्यन्यदेतत् । न त्विति । तथा च सम्बन्धत्वेन प्रतियोगिताया अप्रवेशे तस्या व्यापकत्वाघटिततया नात्माश्रय इति भावः। ननु तर्हि केन रूपेण निरुक्तलक्षणघटकीभूतायाः प्रतियोगितायाः प्रवेश इत्यत आह-प्रतियोगितात्वादीति । हेतुमनिष्ठाभावीयत्वस्य प्रथमोपस्थिततया तेन दीपिका वहित्वावच्छिन्नाऽवच्छेदकतायाः स्वाश्रयानाधिकरणहेत्वधिकरणकत्वविरहेण लक्षणाऽघटकत्वात् । न च 'विशिष्टसत्तावाजाते'रित्यत्राऽतिव्याप्तिः, साध्याऽभावस्य लक्षणाऽघटकत्वा

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286