Book Title: Siddhant Lakshan
Author(s): Ganeshopadhyay, Guru Prasad Shastri
Publisher: Mster Khelari Lal & Sons

View full book text
Previous | Next

Page 241
________________ जागेंदीशी सिद्धान्त-लक्षणम् । साध्यतावच्छेदकेतरपदेन साध्यतावच्छेदकतावच्छेदकरूपेण स्वानवच्छिन्नप्रकारतावच्छेदकत्वं विवक्षणीयमतो न प्रमेयवान् वाच्यत्वादित्यत्र स्वानवच्छिन्नप्रकारत्वाप्रसिच्या तदितराप्रसिद्धिः । एवञ्चेज्जातिमत्त्वात् भावत्वादित्यत्रातिव्याप्तिः, तथा हि-जातिमदभावीयप्रतियोगिताया -- जातित्वरूपेण जात्यनच्छिन्नघट ज्ञानीयघट निष्ठप्रकारतावच्छेदकं यडटत्वादिकं, साध्यतावच्छेदकं यजातिमत्वमेतदुभय निष्ठावच्छेदकता निरूपकत्वात् जातिमदभावो न लक्षणघटकः, किन्तु तत्तद्व्यक्तित्वावच्छिन्नाभाव एव तथा च तत्प्रतियोगितानवच्छेदकं जातिमत्त्रम्, अत्रापि प्रत्येकाभावमादाया तिव्याप्तेर्वारणेऽपि महानसीयवह्निभिन्नवह्नित्ववत्त्वान् धूमादित्यादावतिव्याप्तिर्बोध्या । मैवम् । ૨૪૬ साध्यतावच्छेदकतापर्याप्त्यनुयोगितावच्छेद की भूतधर्मविशिष्टधर्मावच्छिन्नानुयोगिताकपर्याप्तिकावच्छेदकत्वानिरूपिका या प्रतियोगिता, तदनवच्छेदकत्वस्य विवक्षितत्वात् । वैशिष्ट्यं च स्वाभाववद्वत्तित्व, स्वसामानाधिकरण्योभयसम्बन्धेन, तथा च 'वह्निमान् धूमादित्यादौ महानसीयवह्नयभावमादाय नाव्याप्तिः, तथा हि तदभावीय प्रतियोगितायाः साध्यतावच्छेदकतापर्याप्त्यनुयोगितावच्छेदकं ह्नित्वनिष्ठैकत्वं तद्विशिष्टं महानसीयत्ववह्नित्वनिष्ठद्वित्वं तदवच्छिन्नानुयोगिताकपर्याप्तिकावच्छे कदतानिरूपकत्वात् 'जातिमत्त्वान् भावत्वा' दित्यादौ च नातिव्याप्तिरिति ध्येयम् । यद्व वस्तुतस्तु स्वनिरूपितत्व, स्वभिन्नप्रकृतानुमितिविधेयतावच्छेदकता पर्याप्त्यनुयोगितावच्छेदकीभूतधर्मावच्छिन्नानुयोगिता कपर्याप्तिकावच्छेदकता निरूपकत्वोभयसम्बन्धेनावच्छेदकताविशिष्टान्याया एव प्रतियोगिताया अनवच्छेदकत्वस्य साध्यतावच्छेदके विवक्षितत्वान्न कोऽपि दोषः ॥ ७ ॥ 9 'वह्निमान् धूमादित्यादौ महानसीयवह्निवृत्तित्वविशिष्टजातिमद्भावमादायाव्याप्तिवारणायावच्छेदकतायां 'निरवच्छिन्नत्वं' निवेशितं जगदीशेन ४ [पृ०१६ जा०] न चात्र महानसीयवह्निवृत्तित्वविशिष्टजातिमद्वह्निर्नास्तीतिप्रतीतिसिद्धाभावीयप्रतियोगिताया निरवच्छिन्नावच्छेदकत्वस्य वह्नित्वे सत्त्वादव्याप्तितादवस्थ्यमिति वाच्यम्,अव्यावर्तकत्वेन तादृशप्रतीत्या वह्नित्वे निरवच्छिन्नावच्छेदकत्वान वगाहनात् । अथवा स्वावच्छिन्नावच्छेदकता विशिष्टान्यत्वरूपं 'निरवच्छिन्नत्व' मत्र विवक्षितं । वैशिष्ट्यञ्च स्वनिरूपकप्रतियोगित्वनिरूपितत्व, स्वसामानाधिकरण्यैतदुभयसम्बन्धेन ग्राह्यम् । तथा च वह्नित्वनिष्ठनिरवच्छिन्नावच्छेदकत्वस्यापि तादृशसम्बन्धेन स्वावच्छिन्नावच्छेदकत्वविशिष्टतया नाव्याप्तिरिति भावः । वस्तुतस्तु स्वावच्छिन्नावच्छेदकत्वानिरूपकत्वमेव निरवच्छिन्नत्वं प्रतियोगितायां निरवच्छिन्नत्वमतो न तादृशाभावप्रतियोगिता लक्षणघटिकेति नाव्याप्तिरिति भावः ।

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286