Book Title: Siddhant Lakshan
Author(s): Ganeshopadhyay, Guru Prasad Shastri
Publisher: Mster Khelari Lal & Sons

View full book text
Previous | Next

Page 242
________________ काली- शङ्करी - विवेचना । २४७ न च साध्यतावच्छेदक- तदितरोभयानवच्छिनत्वं व्यर्थं, महानसीयवह्वय भाबप्रतियोगितायाः स्वावच्छिन्नावच्छेदकता निरूपकत्वेन लक्षणाघटकत्वादिति वाच्यम् । तार्णवह्नयभावमादाय 'वह्निमान् धूमादित्यादावव्याप्तिप्रसङ्गात् । यद्यपि तादृशाभावप्रतियोगिताया अवच्छेदकत्वं तार्णत्व एव स्वीक्रियते, लाघ वान्न तु वह्नित्वेऽव्यावर्तकत्वात्, तथापि कालो रजतमित्यादिप्रतीत्या कालिकसम्बन्धेन जात्यादेः स्वरूपतो भानात् कालिकसम्बन्धेन गुणत्वविशिष्टस्य साध्यतायां द्रव्यत्वादितौ कालिकेन गुणत्वविशिष्टस्य, समवायेन रूपत्वविशिष्टस्य गुणत्ववद्रूपस्याभावमादायाव्याप्तिवारणाय तत्सार्थक्यादिति ध्येयम् । ननु व्यभिचारिमात्रस्य सर्वस्या निरुक्तेरलक्ष्यतया शुद्धसाध्यतावच्छेदकस्थलीय. निरुक्तौ ' दण्डिमान् द्रव्यत्वा' दित्यादावतिव्याप्तिरिति चेन्न । हेतुमन्निष्ठाभावप्रतियोगिताया निरवच्छिन्नावच्छेदकत्वाभाववत्त्वे सति निरवच्छिन्नावच्छेदकताश्रयसाध्यतावच्छेदकावच्छिन्न सामानाधिकरण्यं व्याप्तिरिति सर्वं सुस्थितम् ॥ ८॥ ननु विशिष्टसाध्यतावच्छेदककस्थले हेतुमन्निष्ठाभावप्रतियोगितावच्छेदकतायां, साध्यतावच्छेदकतावच्छेदक, तदितरोभयानवच्छिनत्वनिवेशेऽपि 'दण्डिमान दण्डि• संयोगा' दित्यादौ तत्तद्व्यक्तित्वावच्छिन्नदण्ड निष्टावच्छेदकताकप्रतियोगिताकाभावमादायान्याप्तिसम्भवे, –'रूपत्वन्यूनवृत्तिजातिमत्त्वान् रूपा' दित्यादिस्थलान्तरानुधावनमनुचितम् । 8 [ पृ. २६. जा. ] न च साध्यतावच्छेदकतावच्छेदकेत रानवच्छिन्नत्वनिवेश एव तात्पर्यमन्यथा जातिमत्त्वान् घटत्वादित्यादौ पटसमवेतत्वविशिष्टवान्नास्तीति प्रतीति साक्षिकपटसमवेतत्ववैशिष्ट्य मात्रावच्छिन्न जाति निष्ठावच्छेदक ताकप्रतियोगिताका भावमादायाव्याप्तितादवस्थ्यापातात् । तथा च तत्तद्व्यक्तित्वावच्छिन्नदण्डनिष्ठावच्छेदकतायां साध्यतावच्छेदकतावच्छेदकेतरतद्वयक्तित्वावच्छिन्नत्वेन तदभावस्य लक्षणाघटकत्वानाव्याप्तिरिति वाच्यम् । तथा सति संयोगेन तद्व्यक्तिमतः कथञ्चित्सम्बन्धेन साध्यतायामव्याप्त्यापत्तेः । साध्यतावच्छेदकता घटकसंयोगसम्बन्धावच्छिन्न हेतुमन्निष्ठाभावीयप्रतियोगितावच्छेदकतायाः साध्यतावच्छेदकतावच्छेद केतरधर्मावच्छिन्नत्वेन तादृशावच्छेदकत्वाप्रसिद्धेः । जात्यखण्डोपाध्यतिरिक्तस्य स्वरूपतो भाने मानाभावाद्रूपत्ववत्त्वान्, रूपवान् वा पृथिवीत्वादित्यादौ विषयितासम्बन्धेन रूपत्वविशिष्टाभावमादायाव्याप्तिवारणायावच्छेदकतायां साध्यतावच्छेदकता घटक सम्बन्धावच्छिन्नत्वनिवेशस्यावश्यकत्वादिति चेन्नसाध्यतावच्छेदकतावच्छेदकेतरधर्मानवच्छिन्नावच्छेदक• तत्राव्याप्तिवारणाय तायां साध्यतावच्छेदकताघटक सम्बन्धातिरिक्त सम्बन्धावच्छिन्नत्व, साध्यतावच्छेदकनिष्टत्वोभयाभावविशिष्टत्वस्य निवेशनीयत्वात् । तथा च रूपत्ववत्त्वान्, रूपवान्

Loading...

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286