Book Title: Siddhant Lakshan
Author(s): Ganeshopadhyay, Guru Prasad Shastri
Publisher: Mster Khelari Lal & Sons

View full book text
Previous | Next

Page 224
________________ विवृति-दीपिकालङ्कृता । जगदीशी बच्छेदकताकत्व - यत्सम्बन्धावच्छिन्नावच्छेदकताकत्वो भयाभावस्तेन सम्बन्धेन तद्धर्मावच्छिन्नस्य व्यापकत्वं विवचितं, वृत्त्यनियामकसम्बन्धस्य प्रतियोगिताच्छेदकत्वाभावेऽपि - - प्रतियोगितावच्छेदकताघटकसम्बन्धत्वं सर्वसम्मतमेव, “चैत्रो न पचतीत्यादौ वृत्त्यनियामकाऽनुकूलत्वसम्बन्धेन पाकविशि'ष्टायाः कृतेरभावस्य चैत्रादावन्वयदर्शनात् । विवृतिः - २२४ च्छिन्नस्य धूमव्यापकत्वानुपपत्तिः, प्रमेयवह्नित्वावच्छिन्नावच्छेदकता निरूपितत्वविशिष्टसंयोगसम्बन्धावच्छिन्नावच्छेदकतानिरूपितत्वस्य कस्यामपि प्रतियोगितायामप्रसिद्धत्वादतो 'विशिष्टाभाव' मपहायोभयाभावो निवेशितः, तथा सति विषयितया प्रमेयवह्निमदभावीयप्रतियोगितायां प्रमेयवह्नित्वावच्छिन्नावच्छेदकतानिरूपितत्वस्य, संयोगेन घटवदभावप्रतियोगितायां संयोगा - वच्छिन्नावच्छेदकतानिरूपितत्वस्य च प्रसिद्धतया तद्घटितोभयाभावस्य विषयितया प्रमेयवह्निमदभावीय प्रतियोगितायां सच्चान्न व्यापकत्वानुपपत्तिः । एतेन तादृशप्रतियोगितासामान्ये यद्धर्मावच्छिन्नयत्सम्बन्धावच्छिन्नावच्छेदकतानिरूपितत्वाभाव इत्येकाभावनिवेशोऽपि - निरस्तः, 'प्रमेयवह्निमान् धूमादित्यत्र - तादृशस्याप्रसिद्धत्वादव्याप्त्यापत्तेरिति विभावनीयम् । तत्सम्बन्धावच्छिन्नप्रतियोगितायास्तेन सम्बन्धेन वृत्तिमद्वृत्तित्वमिति मते, - 'वाच्यं ज्ञेयत्वा' दित्यत्राव्याप्तिः, स्वरूपेण वाच्यत्ववतः समवायेन योऽभावस्तदीयप्रतियोगिताश्रयसमवेतपदार्थभिन्नत्वस्य हेत्वधिकरणे गगने सत्वात् तादृशाभावीयप्रतियोगितायाञ्च वाच्यत्वत्वावच्छिन्नावच्छेदकतानिरूपितत्व-स्वरूपसम्बन्धावच्छिन्नावच्छेदकतानिरूपितत्वयोर्द्वयोः सत्वादतो 'यादृशप्रतियोगित्वाश्रयभिनत्वमुपेक्ष्य 'यादृशप्रतियोगितावच्छेदकानधिकरणत्वं' 'हेत्वधिकरणे' निवेशितमिति दिक् । ननुवृत्त्यनियामकसम्बन्धावच्छिन्नप्रतियोगितावच्छेदकत्वस्य सर्वसम्मतत्वं कथमङ्गीकर्त्तव्यमित्यत आह- - चैत्रेति । तथा च 'चैत्रो न पचती' त्यादावनुकूलत्वसम्बन्धेन पाकविशिष्टकृत्यभाववश्चैत्र इत्यन्वयबोधस्यानुभविकतया निरुक्ताभावोचकृति निष्टप्रतियोगितानिरूपित पाकनिष्ठावच्छेदकताया वृत्यनियामकानुकूलत्वसम्ब न्धावच्छिन्नतायां विवादाभावेन वृत्त्यनियामकसम्बन्धावच्छिन्नाऽपि प्रतियोगितावच्छेदकता सर्वसम्मतैवेति भावः । "

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286