Book Title: Shobhan Stuti Vruttimala Part 01
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 145
________________ 114 शोभनस्तुति-वृत्तिमाला (2) सि० वृ०-दिशदिति / भो भव्याः ! यूयं जिनमतं-भगवच्छासनं मुदा-हर्षेण सदा-निरन्तरमेव अरंशीघ्रं काम-अत्यर्थं नमत-प्रणमतेति क्रियाकारकसम्बन्धः / ‘णम प्रहीभावे' धातोः ‘आशीःप्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे मध्यमपुरुषबहुवचनं / ‘अप्०' (सा० सू० 691), 'स्वरहीनं०' (सा० सू० 36), 'आदे: ष्णः स्नः' (सा० सू० 748) इति णकारस्य नकारः / तथा च ‘नमत' इति सिद्धम् / अत्र ‘नमत' इति क्रियापदम् / के कर्तारः ? / यूयम् / किं कर्मतापन्नम् ? / 'जिनमतं' जिनानां मतं जिनमतं इति तत्पुरुषः' / “मतं पूजितसंमते” इति विश्वः / कया ? / मुदा / कथम् ? / सदैव / पुनः कथम् ? / अरम् / पुनः कथम् ? / कामम् / “कामं प्रकामेऽनुमतावसूयानुगमेऽपि च” इति विश्वः / जिनमतं किं कुर्वत् ? / 'दिशत्' दिशतीति दिशत् दददित्यर्थः / किं कर्मतापन्नम् ? / 'उपशमसौख्यम्' उपशमस्य सौख्यं उपशमसौख्यम् 'तत्पुरुषः' प्रशमसुखमित्यर्थः / केषाम् ? / संयतानां-ऋषीणाम् / कथंभूतं जिनमतम् ? / उरु-विशालम्। पुनः कथंभूतम् ? / उदारं महत् / “उदारो दातृमहतोः” इत्यमरः (श्लो० 2719) / पुनः कथंभूतम् ? / 'आयामहारि' आयामेन-दैर्येण हारि-चारु / “दैर्घ्यमायाम आरोहः, परिणाहो विशालता” इत्यमरः (श्लो० 1302) / हेमचन्द्रोऽप्येवमवोचत् / पुनः किं कुर्वत् ? / वासयत्स्थापयत् / कान् ? / 'जननमरणरीणान्' जननं च मरणं च जननमरणे ‘इतरतरद्वन्द्वः', जननमरणाभ्यांजन्ममृत्युभ्यां रीणान्-श्रान्तान् जननमरणरीणान् इति 'तत्पुरुषः' / “स्यन्ने रीणं त्रुतं स्त्रुतं” इति हैमः (का० 6, श्लो० 132) / कस्मिन् ? / सिद्धिवासे-मोक्षसद्मनि / सिद्धिरेव वासः सिद्धिवासः तस्मिन् सिद्धि० / कथंभूते ? / 'अरुजि' नास्ति रुक्-रोगो यस्मिन् स तथा तस्मिन् / पुनः कथंभूतं जिनमतम् ? | 'काममायामहारि' कामः-स्मरः माया-कषायविशेषः कामश्च माया च काममाये ‘इतरेतरद्वन्द्वः' तयोः महांश्वासावरिश्च इति ‘कर्मधारयः' तत् तथा, बृहदमित्रभूतमित्यर्थः / महाचक्रं वा / यदिवा कामश्च माया च आमो-रोगश्च तान् हरतीत्येवंशीलम् / अत्र सदैव अरं कामं इति क्रियाविशेषणानि दिशत् वासयदित्यादिष्वपि योज्यन्ते तथापि संमतमेव / / 27 / / सौ० वृ०-दिशदिति / भो भव्याः ! जिनमतं-तीर्थंकरप्रवचनं यूयं नमत इत्यन्वयः / ‘नमत' इति क्रियापदम् / के कर्तारः ? 'यूयम्' / 'नमत' प्रणमत / किं कर्मतापन्नम् ? 'जिनमतम्' / कया ? / 'मुदा' हर्षेण / कथम् ? / 'अरं' अत्यर्थम् / जिनमतं किं कुर्वत् ? / 'दिशत्' दर्शयत् ददत् वा / कि कर्मतापन्नम् ? / 'उपशमसौख्यं' शान्तरससुखभावम् / केषाम् ? / 'संयतानां' सम्यक् यतनावतां साधूनाम् / कथम् ? / 'सदा' सर्वकालम् / एव' निश्चितम् / पुनः किंवि० जिनमतम् ? / आयाम-दैर्घ्यम् अर्थावबोध

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234