Book Title: Shobhan Stuti Vruttimala Part 01
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________ श्रीचन्द्रप्रभजिनस्तुतयः 137 दे० व्या०-वज्राङ्कुश्यकुशेति / हे वज्राङ्कुशि ! त्वं तनुमदवने-प्राणिरक्षणे प्रयलं-प्रकर्षेण यलं विधत्स्व कुरु इत्यन्वयः / 'डुधाञ्धारणपोषणयोः' इति धातुः / विधस्त्व' इति क्रियापदम् / का की ? / त्वम् / कं कर्मतापन्नम् ? | प्रयलम् / कस्मिन् ? / 'तनुमदवने' तनुः-शरीरं विद्यते येषां ते तनुमन्तः, तेषां अवनं-रक्षणं तस्मिन् / किंविशिष्टा त्वम् ? / 'हेमतारा' हेम-सुवर्णं तद्वत् तारा-विशदा / हे अध्यारूढे ! गतवति ! कृतारोहणे इति यावत् / कस्मिन् ? / द्विपेन्द्रे-ऐरावणे / किंविशिष्टे द्विपेन्द्रे ? | ‘अतिमत्ते' अतिशयेन मत्ते-मदोत्कटे / पुनः किंविशिष्टे ? / 'शशधरकरश्वेतभासि' शशधरस्य-चन्द्रस्य कराः-पादाः तद्वत् श्वेता-उज्ज्वला भाः-कान्तिः यस्य स तस्मिन् / पुनः किंविशिष्टे ? / 'स्वायत्यागे' स्वस्य आयतिःविस्तारः तया अगे-पर्वत-सदृशे / अत्राभेदरूपकालङ्कारः / पुनः किंविशिष्टे ? | ‘अतनुमदवने' अतनु:प्रभूतो यो मदः-दानप्रवृत्तिः स एव वनं-जलं यस्मिन् स तस्मिन् / “जीवनं भुवनं वनम्” इत्यमरः (श्लो० 473) / ‘अङ्कुशकुलिशभृत् !' इति / अङ्कुशः-सृणिः कुलिशं-वज्रम्, अनयो ‘र्द्वन्द्वः', ते बिभर्तिधारयति या सा तस्या आमन्त्रणम्, 'स्वायत्यागे !' इति / आयः-अर्थप्राप्तिः त्यागः-दानम्, अनयो ‘र्द्वन्द्वः',ततः सुष्ठु आयत्यागो यस्याः सा तस्या आमन्त्रणम् / ‘अमतारातिमत्ते !' इति / अरातिः-शत्रुः विद्यते यस्याः सा अरातिमती, तस्याः भावः अरातिमत्ता / 'त्वतलोर्गुणवचनयोः(स्य?)' (पा० वार्तिके 3927) इति पुंवद्भावः / सा न मता-नाभिप्रेता यस्याः सा तस्या आमन्त्रणम् / सकलविपक्षपक्षोच्छेदनादिति भावः / एतानि सर्वाण्यपि देव्याः सम्बोधनपदानि / / इति चतुर्थवृत्तार्थः / / 4 / / मन्दाक्रान्ताच्छन्दः / / “मन्दाक्रान्ता मभनततगा गो यतिवेदषड्भिः " इति च तल्लक्षणम् / / 4 / 8 / 32 / / ..ध० टीका-वज्रेति / 'वज्राङ्कुशि !' वज्राङ्कुशीसंज्ञे ! / 'अङ्कुशकुलिशभृत् !' सृणिवजधारिणि ! / 'त्वे' / 'विधत्स्व' कुरु / ‘प्रयलं' आदरम् / 'स्वायत्यागे !' आयः-अर्थस्यागमः त्यागःदानं, शोभनौ आयत्यागौ यस्याः सा सम्बोध्यते / 'तनुमदवने' तनुमन्तो-देहिनस्तेषां अवने-रक्षणे | 'हेमतारा' स्वर्णोज्ज्वला / ‘अतिमत्ते' अत्यन्तं मदवति / 'अध्यारूढे !' अध्यासीने ! / 'शशधरकरश्वेतभासि' चन्द्रांशुधवलत्विषि / 'द्विपेन्द्रे' गजपता / ‘स्वायत्या' निजायामेन कृत्वा / ‘अगे' सानुमति / अतनुमदवने' अतनु-प्रभूतं मदवनं-दानजलं यस्य तस्मिन्, अथवा अतनुमद एव श्यामत्वात् वन-काननं यस्य तस्मिन्, नगः किल वनवान् भवतीति अभिप्रायः / 'हे' इत्यामन्त्रणे / 'अमतारातिमत्ते !' अरातिमतो-विपक्षयुक्तस्य भावो अरातिमत्ता, सा न मता नाभिप्रेता यस्यास्तस्याः सम्बोधनम् / हे वज्राङ्कुशि ! त्वं हेमतारा तनुमदवने प्रयत्नं विधत्स्वेति सम्बन्धः / / 4 / 8 / 32 / / 1. अत्र 'गजपतौ' इति सम्भाव्यते /

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234