Book Title: Shobhan Stuti Vruttimala Part 01
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 231
________________ 200 शोभनस्तुति-वृत्तिमाला इति क्रियापदम् / का कर्जी ? / 'कुण्डिका' कुण्डिरेव कुण्डिका / “अस्त्री कमण्डलुः कुण्डी” इत्यमरः (श्लो० 1444) / कथम् ? / परिकरम् / कस्याः ? | यस्याः / कथंभूता कुण्डिका ? / उदिता-उदयं प्राप्ता / पुनः कथंभूता / साक्षमाला-अक्षावलीसमेता / एते द्वे विशेषणे श्रीशान्तिदेव्या (वा) व्याख्येये इति / स्रग्धराच्छन्दः / “विज्ञेया स्रग्धरेयं मरभनययया वाहवाहैर्यतिश्चेत्” इति च तल्लक्षणम् / / 48 / / . // इति महोपाध्यायभानुचन्द्र० श्रीवासुपूज्यजिनस्तुतिवृत्तिः // 4 / 12 / 48 // सौ० वृ०-रक्षःक्षुद्रेति / श्रीशान्तिनाम्नी देवी चण्डीत्यपरोक्षा जगति-पृथिव्यां भवन्तं-त्वां क्षमा-शान्तिः तस्या लाभस्तद्वन्तं क्षमालाभवन्तं जनयतादित्यन्वयः / 'जनयतात्' इति क्रियापदम् / का की ? / 'श्रीशान्तिदेवी' शान्तिनाम्नी देवी / श्रीशब्द: पूज्यार्थे / श्रिया-लक्ष्म्या युक्ता शान्तिदेवी श्रीशान्तिदेवी / 'जनयतात्' विदध्यात् / कं कर्मतापन्नम् ? / 'भवन्तम्' / किंवि० भवन्तम् ? | 'क्षमालाभवन्तम्' / किंविशिष्टा श्रीशान्तिदेवी ? / 'शुभ्रा' गौरवर्णा | पुनः किंवि० श्रीशान्तिदेवी ? / रक्षः(क्षांसि)-राक्षसाः, क्षुद्राः-शाकिन्यादयः, ग्रहाः-खेटाः, आदिशब्दात् भूपालव्यालादयः तेषां प्रतिहतिः-विघ्नं तस्याः शमनी-शान्तिकारिणी 'रक्षःक्षुद्रग्रहादिप्रतिहतिशमनी' / पुनः किंवि० श्रीशान्तिदेवी ? | 'वाहितश्वेतभास्वत्सन्नालीका' | पुनः किं० श्रीशान्तिदेवी ? / सद्भिः-साधुभिः आप्ताप्रमाणीकृता ‘सदाप्ता' / पुनः किं० श्रीशान्तिदेवी ? | परिकरैः-परिजनैः सेवकैर्या मुदिता-हर्षिता परिकरमुदिता | पुनः किं० श्रीशान्तिदेवी ? / अक्षमालया-जपमालया सहिता इति साक्षमाला | पुनः किं० श्रीशान्तिदेवी ? / 'सा' सा-प्रसिद्धा उपलक्षिता | सा का ? / यस्याः परिकर-हस्तं उपलक्षीकृत्य कुण्डिका-कमण्डलु ति इत्यन्वयः / भाति' इति क्रियापदम् / का की ? | कुण्डिका / भाति' शोभते / कथम् ? / परिकर' हस्ते इत्यर्थः / परीत्यव्ययस्य आधारकर्मणि द्वितीया / कस्याः ? / 'यस्याः' देव्याः / पुनः किं० श्रीशान्तिदेवी ? / सन्नं-क्षीणं गतं वा अलीकं-मिथ्यात्वं यस्याः सा सन्नालीका' / कथम् ? | 'सदा' निरन्तरम् / पुनः किं० श्रीशान्तिदेवी ? / आप्ता' प्रतीता / पुनः किं० श्रीशान्तिदेवी ? | ‘उदिता' उदयं प्राप्ता / इति पदार्थः / / अथ समासः-रक्षांसि च क्षुद्राश्च ग्रहाश्च रक्षःक्षुद्रग्रहाः, रक्षःक्षुद्रग्रहा आदिर्येषां ते रक्षःक्षुद्रग्रहादयः, रक्षःक्षुद्रग्रहादिभ्यः प्रतिहतिः रक्षःक्षुद्रग्रहादिप्रतिहतिः, तस्याः शमिनी रक्षःक्षुद्रग्रहादिप्रतिहतिशमिनी / सत् च तत् नालीकं च सन्नालीकं, भास्वच्च तत् सन्नालीकं च भास्वत्सन्नालीकम्, श्वेतं च तत् भास्वत्सन्नालीकं च श्वेतभास्वत्सन्नालीकम्, वाहितं श्वेतभास्वत्सन्नालीकं यया सा वाहितश्वेतभास्वत्सन्नालीका / सद्भिः सतां वा आप्ता सदाप्ता / परिकरैः मुदिता परिकरमुदिता / अक्षाणां माला अक्षमाला, अक्षमालया सहिता


Page Navigation
1 ... 229 230 231 232 233 234