Book Title: Shobhan Stuti Vruttimala Part 01
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________ 202 शोभनस्तुति-वृत्तिमाला ध० टीका-रक्ष इति / 'रक्षःक्षुद्रग्रहादिप्रतिहतिशमनी' रक्षांसि-यातुधानाः, क्षुद्राःशाकिनीप्रभृतयः, ग्रहाः-शनैश्चरादयः, आदिग्रहणादन्येऽपि भूपालव्यालकालभूतादयस्तेभ्यः प्रतिहतिःउपघातस्तस्याः शमनी-विनाशिका / 'वाहितश्वेतभास्वत्सन्नालीका' वाहितं-वाहनीकृतं श्वेतं भास्वत्: शोभमानं नालीकं-अब्जं यया सा / 'सदा' नित्यम् / तापरिकरमुदिता' तापरिकरेण-जटामण्डलेन मुदिताहृष्टा / 'सा' / 'क्षमालाभवन्तं' क्षमालाभः-उपशमप्राप्तिः सा विद्यते यस्य तम् / 'शुभ्रा' शुक्लवर्णा | 'श्रीशान्तिदेवी' शान्तिदेवता / 'जगति' भुवने / 'जनयतात्' करोतु / 'कुण्डिका' कमण्डलुः / ‘भाति' शोभते / 'यस्याः' / 'सन्नालीका' सन्नं-अवसादं गतं अलीकं-असत्यं यस्याः सा / 'सदाप्ता' सतां-साधूनां आप्ता-अविप्रतारिका / देवताया विशेषणे / परिकरमुदिता' परिकरं-हस्तं लक्षणीकृत्योदिता-उदयं प्राप्ता / साक्षमाला-अक्षावलीसमेता / कुण्डिकाया विशेषणे देव्या वा / 'भवन्तं' त्वाम् / सा शान्तिदेवी क्षमालाभवन्तं जनयतात् यस्याः परिकरं उदिता कुण्डिका भातीत्यन्वयः // 4 / 12 / 48 // अवचूरिः श्रीशान्तिदेवी भवन्तं-त्वां क्षमा-उपशमस्तस्या लाभः सोऽस्यास्तीति तं क्षमालाभवन्तं क्रियात् / कीदृशी ? / रक्षांसि-पलादाः, क्षुद्राः-शाकिनीप्रमुखाः, ग्रहाः-शनैश्चरादयः, आदिशब्दाद् भूपालव्यालादयः, तेभ्यः प्रतिहतिः-उपघातस्तस्याः शमनी-नाशिका / वाहितं-वाहनीकृतं श्वेतं-सितं भास्वद्दीप्यमानं सत्-शोभनं नालीकं-कमलं यया सा / सतां-साधूनामाप्ता-अविप्रतारिका / तापरिकरंजटामण्डलं तेन मुदिता-प्रीता / सन्नं-क्षीणमलीकम्-असत्यं यस्याः सा / सहाक्षमालया-जपमालया वर्तते / इदं देव्याः कुण्डिकाया वा विशेषणम् / यस्या देव्याः कुण्डिका-कमण्डलु ति / कथंभूता ? / कर-हस्तं परि-लक्षीकृत्य उदिता-उदयं प्राप्ता / / 4 / 12 / 44 //

Page Navigation
1 ... 231 232 233 234