Book Title: Shobhan Stuti Vruttimala Part 01
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________ श्रीवासुपूज्यजिनस्तुतयः साक्षमाला। सन्नं-क्षीणम् अलीकं यस्याः सा सन्नालीका / करं परि-व्याप्तीकृत्य इति परिकरम् / मुत् सांता अस्या इति मुदिता / क्षमाया लाभः क्षमालाभः, क्षमा च लाभश्च क्षमालाभौ, क्षमालाभौ विद्येते यस्य स क्षमालाभवान्, तं क्षमालाभवन्तम् / / इति चतुर्थवृत्तार्थः / / 48 / / श्रीवासुपूज्यदेवस्य, स्तुतेरथों लिपीकृतः / सौभाग्यसागराख्येण, सूरिणा ज्ञानसेविना / / // इति वासुपूज्यजिनस्तुतिः // 4 / 12 / 48 // . (4) दे० व्या०-रक्षःक्षुद्रेति / सा श्रीशान्तिदेवी भवन्तं क्षमालाभवन्तं जनयतात्-कुर्यादिति सम्बन्धः / 'जनी प्रादुर्भावे' धातुः / 'जनयतात्' इति क्रियापदम् ! का कर्जी ? / (श्री) शान्तिदेवी / श्रीशब्दोऽत्र पूज्यवाचकः / कं कर्मतापन्नम् ? / भवन्तम् / किंविशिष्टं भवन्तम् ? / 'क्षमालाभवन्तम्' क्षमायाःउपशमस्य लाभः-प्राप्तिः तद्वन्तम् / किंविशिष्टा देवी ? | ‘रक्षःक्षुद्रग्रहादिप्रतिहतिशमनी' रक्षांसिकीनाशाः, क्षुद्राः-शाकिनीप्रमुखाः, ग्रहाः-शनैश्चरादयः, आदिग्रहणादन्येऽपि भूपालव्यालकालादयो ग्राह्याः, एतेषां 'द्वन्द्वः', तेभ्यः प्रतिहतिः-उपघातः तस्याः शमनी-नाशिनी / पुनः किंविशिष्टा ? / 'वाहितश्वेतभास्वत्सन्नालीका' वाहितं-वाहनीकृतं श्वेतं-धवलं भास्वत्-दीप्यमानं सत्-शोभनं नालिकंकमलं यया सा तथा / पुनः किंविशिष्टा ? / आप्ता यथार्थोपदेष्ट्री, अविप्रतारिकेत्यर्थः / कथम् ? / सदा-सर्वदा / पुनः किंविशिष्टा ? / 'परिकरमुदिता' परिकरेण परिस्कन्देन परिवारेणेति यावत् मुदिताहर्षिता / “परिस्कन्दः परिकर” इत्यभिधानचिन्तामणिः (?) | पुनः किंविशिष्टा ? / शुभ्रा-अवदाता / यत्तदोर्नित्याभिसम्बन्धाद् यस्याः-शान्तिदेव्याः जगति-पृथिव्यां कुण्डिका भाति-शोभते इत्यन्वयः / ‘भाक् दीप्तौ' इति धातुः / ‘भाति' इति क्रियापदम् / का कर्जी ? / कुण्डिका / कस्याः ? / शान्तिदेव्याः / कस्मिन् ? / जगति / किंविशिष्टा कुण्डिका ? / 'सन्नालीका' सत्-शोभनं नालीकं-कमलं यस्याः सा तथा / पुनः किंविशिष्टा कुण्डिका ? / 'सदाप्ता' सद्भिः-साधुजनैः आप्ता-प्राप्ता | पुनः किंविशिष्टा ? / ‘परिकरमुदिता' करं-हस्तं परि-लक्ष्यीकृत्य उदिता-उदयं प्रापिता / ‘लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिपर्यनवः' (पा० अ० 1, पा० 4, सू०९०) इति सूत्रेण द्वितीया / पुनः किंविशिष्टा ? | ‘साक्षमाला' अक्षमाला-जपमाला तया सह वर्तमानाः / देवीपक्षे 'सन्नालीका' सन्नं-क्षीणं अलीकं-असत्यं यस्याः सा तथा ताम् / 'सदाप्ता' सतां मध्ये आप्ता-वृद्धा / निर्धारणे षष्ठी / परिकरण-जटामण्डलेन मुदिता-हर्षिता इत्यर्थो वोध्यः / इति चतुर्थवृत्तार्थः / / 48 / / स्रग्धराच्छन्दः / “विज्ञेया स्रग्घरेयं मरभनययया वाहवाहैर्यतिश्चेत्” इति तल्लक्षणम् // 4 / 12 / 48 //

Page Navigation
1 ... 230 231 232 233 234