Book Title: Shobhan Stuti Vruttimala Part 01
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________ श्रीशीतलजिनस्तुतयः 161 मानवीदेव्याः स्तुतिःघनरुचिर्जयताद् भुवि मानवी गुरुतराविहतामरसंगता / कृतकराऽस्त्रवरे फलपत्रभा गुरुतराविह तामरसं गता // 4 // 40 // - द्रुत० ज० वि०-घनरुचिरिति / मानवी-मानवीनाम्नी देवी भुवि-पृथिव्यां इह-जगति जयतात्जयत्विति क्रियाकारकसंबन्धः / अत्र 'जयतात्' इति क्रियापदम् / का कर्जी ? ‘मानवी' / कस्यां ? 'भुवि' पृथिव्याम् / कथंभूता मानवी ? 'घनरुचिः' घनवत्-मेघवत् (रुचिः)-छाया यस्याः सा तथा, श्यामेत्यर्थः / पुनः कथंभूता ? 'गुरुतराविहतामरसङ्गता' गुरुतराः- अतिशयेन गुरवो-महान्तः अविहताःकेनाप्यपरिक्षता ये अमरा-देवास्तैः सङ्गता-सहिता / पुनः कथंभूता ? ‘कृतकरा' स्थापितपाणिः / कस्मिन् ? ‘फलपत्रभागुरुतरौ' फलानि च पत्राणि च भजन्त इति फलपत्रभाक् उरुः-विशालो यस्तरु:वृक्षः तस्मिन् फलपत्रभागुरुतरौ / कथंभूते ? 'अस्त्रवरे' प्रवरायुधे / मानस्या देव्या वृक्षरूपमायुधमस्तीति / पुनः कथंभूता मानवी? 'गता' प्राप्ता, समासीनेत्यर्थः / किं कर्मतापन्नम् ? 'तामरसं' कमलम् / / अथ समासः-धनवद् रुचिर्यस्याः सा घनरुचिः ‘बहुव्रीहिः' / अतिशयेन गुरवो गुरुतराः / न विहता अविहता / उभयत्रापि 'तत्पुरुषः' / गुरुतराश्च ते अविहताश्च गुरु० 'कर्मधारयः' / गुरुतराविहताश्च तेऽमराश्च गुरुतरा० 'कर्मधारयः' / गुरुतरविहतामरैः सङ्गता गुरुतरा० ‘बहुव्रीहिः' / कृतौ करौ यया सा कृतकरा 'बहुव्रीहिः' / अस्त्रेषु वरोऽस्त्रवरः 'तत्पुरुषः' / तस्मिन् अस्त्रवरे / फलानि च पत्राणि च फलपत्राणि इतरेतरद्वन्द्वः' / फलपत्राणि भजतीति फलपत्रभाक् ‘तत्पुरुषः' / उरुश्चासौ तरुश्च उरुतरुः ‘कर्मधारयः' / फलपत्रभाक् चासावुरुतरुश्च फलपत्र० 'कर्मधारयः' / तस्मिन् फलपत्र० / इति काव्यार्थः / / 40 // .. // इति शोभनस्तुतिवृत्तौ श्रीशीतलतीर्थकृतः स्तुतेर्व्याख्या // 4 / 10 / 40 // सि० वृ०-घनरुचिरिति / मानवी-मानवीनाम्नी देवी इह-जगति भुवि-पृथिव्यां जयतात्१. 'तराऽविह०' इत्यपि पाठः

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234