Book Title: Shobhan Stuti Vruttimala Part 01
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________ श्रीशीतलजिनस्तुतयः 153 चलनतामरसं-चरणकमलं सदा-सर्वदा जयतीत्यन्वयः / 'जयति' इति क्रियापदम् / किं कर्तृ ? | 'चलनतामरसम्' / कथंभूतं चलनतामरसम् ? / 'सदलं' सच्छायम्। चलनतामरसं किं कुर्वत् ? | 'संस्पृशत्' सम्-सम्यक् प्रकारेण स्पर्शयत् / किं कर्मतापन्नम् ? | 'नवकम्' / केषाम् ? | ‘अम्बुरुहाम्' सुरनिर्मितपद्मानाम् / कस्मिन् ? / 'पथि' मार्गे / पुनः किंविशिष्टं चलनताम-रसम् ? | चला-चपला नता-प्रणता अमराणां संसत्-सभा यस्य तत् ‘चलनतामरसंसत्' / पुनः किंविशिष्टं चलनतामरसम् ? / 'अलङ्घनं' अनुल्लङ्घनीयस्वरूपम् / पुनः किं० चलनतामरस् ? / 'सत्' शोभनं विद्यमानं वा | पुनः किं० चलनतामरसम् ? / 'घनं' सान्द्र निबिडं रेखाकारलक्षणादिभिः / इति पदार्थः / / ___ अथ समासः-तीर्थं-चातुर्वर्ण्यसंघं प्रवचनं गणधरं वा करोतीति तीर्थकृत्, शीतलश्वासौ तीर्थकृच्च शीतलतीर्थकृत्, तस्य शीतलतीर्थकृतः / चलनावेव तामरसं चलनतामरसम् / दलेन सहितं सदलम् / नव एव नवकम् / अम्बुनि रुट-जन्म येषां तानि अम्बुरुहि, तेषां अम्बुरुहाम् / अमराणां संसत् अमरसंसत्, चला नता अमरसंसत् यस्य तत् यस्मिन् वा चलनतामरसंसत् / नास्ति लङ्घनं-मार्गालङ्घनं यस्य तत् अलङ्घनम् / नवकमिति स्वार्थ कन् प्रत्ययः / “दले पत्रे अभिख्यायाः” इत्यनेकार्थः / द्रुतविलम्बितच्छन्दसा स्तुतिरियम् / / इति प्रथमवृत्तार्थः / / 37 / / . (4) दे० व्या०-जयतीति / शीतलतीर्थकृतः-शीतलतीर्थंकरस्य चलनतामरसं-चरणकमलं सदासर्वकालं जयति-सर्वोत्कर्षेण वर्तते इत्यन्वयः / 'जि जये' धातुः / जयति' इति क्रियापदम् / किं कर्तृ ? / 'चलनतामरसम्' चलनमेव तामरसं चलनतामरसमिति विग्रहः / कस्य ? शीतलतीर्थकृतः / किंविशिष्टं चलनतामरसम् ? / 'चलनतामरसंसत्' चला-चञ्चला शीघ्रगमनात् सा चासौ नता अमरसंसद्-देवसभा यस्य तत् / अमराणां संसद् अमरसंसत् इति पूर्वं षष्ठीतत्पुरुषः' / पुनः किंविशिष्टम् ? / 'अलङ्घनम्" नास्ति लङ्घनं अधःकरणं यस्य तत्, सर्वेषामपि वन्द्यत्वात् / चलनतामरसं किं कुर्वत् ? / संस्पृशत्संघट्टयत् / किम् ? / नवकम् / केषाम् ? / अम्बुरुहां-कमलानाम् / कस्मिन् ? / पथि-मार्गे / कथंभूतं नवकम् ? | ‘सदलं' दलैः-पर्णैः सह वर्तमानम् / “बहँ पर्णं छदं दलम्” इत्यभिधानचिन्तामणिः (का० 4, श्लो० 189) / पुनः किंविशिष्टम् ? / घनं-निबिडम् / / इति प्रथमवृत्तार्थः / / 37 / / ध० टीका-जयतीति / 'जयति' जयमासादयति / 'शीतलतीर्थकृतः' शीतलनाम्नो जिनस्य / ‘सदा' सर्वकालम् / ‘चलनतामरसं' चलनौ तामरसमिव / ‘सदलं' सपत्रम् / 'घनं' सारम् / एते पद्मनवकस्यैव विशेषणे / नवकं नवैव, स्वार्थे कन् / 'अम्बुरुहां' पद्मानाम् / 'पथि' मार्गे / 'संस्पृशत्'

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234