Book Title: Shobhan Stuti Vruttimala Part 01
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________ 150 शोभनस्तुति-वृत्तिमाला __ श्रीसुविधिजिनेन्द्रस्य, स्तुतेरो लिपीकृतः / सौभाग्यसागराख्येण, सूरिणा ज्ञानसेविना // ___ // इति नवमश्रीसुविधिजिनस्य स्तुतिः // 4 / 9 / 36 // दे० व्या०-दिश्यादिति / ज्वलनायुधा देवी तव कं-सुखं आशु-शीघ्रं यथा स्यात् तथा दिश्यात्दद्यात् इति सम्बन्धः / 'दिश अतिसर्जने' धातुः / दिश्यात्' इति क्रियापदम् / का की ? / ज्वलनायुधा / किं कर्मतापन्नम् ? / कम् / “कं शिरो जलमाख्यातं, कं सुखं परिकीर्तितम्” इत्यनेकार्थः / कस्य ? / तव / किंविशिष्टा ज्वलनायुधा ? / 'अल्पमध्या' अल्पं मध्यं-मध्यभागो यस्याः सा तथा / अणुकोदरेत्यर्थः / पुनः किंविशिष्टा ? / सिता-गौरा / पुनः किंविशिष्टा ? / अध्यासिता-आरूढा / कम् ? / 'उरुपृष्ठं उरुविस्तीर्णं यत् पृष्ठं-पृष्ठभागम् / उरु इति पृथगेव पदमित्यपि कश्चित् / कस्य ? / 'अकम्प्रवरालकस्य' अकम्प्रः-स्थिरो यो वरालकः-देववाहनविशेषः तस्य / पुनः किंविशिष्टा ? / 'अस्तेन्दुः' अस्तो न्यक्कृतः इन्दुः-चन्द्रो यया सा तथा / कया? / रुचा-कान्त्या / कस्य ? / आस्यस्यमुखस्य / किंविशिष्टस्य आस्यस्य ? / ‘प्रवरालकस्य' प्रकर्षण वरः-समीचीनः अलकः-चूर्णकुन्तलो भाले भ्रमरकविशेष इति यावत् यस्य तत् तस्य / “अलकाचूर्णकुन्तलाः” इत्यमरः (श्लो० 1265) / इति तुरीयवृत्तार्थः / / 36 / / उपेन्द्रवज्राच्छन्दः / “उपेन्द्रवज्रा जतजा गयुग्मम्” इति तल्लक्षणम् // 4 / 9 / 36 // ध० टीका-दिश्यादिति / 'दिश्यात्' उपनीयात् / 'तव' भवतः / ‘आशु' क्षिप्रम् / 'ज्वलनायुधा' सर्वासमहाज्वाला / ‘अल्पमध्या' कृशोदरी / 'सिता' शुक्लवर्णा / 'कं' सुखम् / 'प्रवरालकस्य' प्रधानकुरलस्य / ‘अस्तेन्दुः' न्यक्कृतमृगाङ्का / ‘आस्यस्य रुचा' मुखकान्त्या / 'उरु' विशालम् / ‘पृष्ठं' उपरिभागम् / 'अध्यासिता' अध्यारुढा / ‘अकम्प्रवरालकस्य' अकम्प्रः-स्थिरो यो वरालको-वाहनविशेषस्तस्य // 4 / 9 / 36 // अवचूरिः तव ज्वलनायुधा देवी कं-सुखं दिश्यात्-करोतु / किंभूता ? / अल्पं-तुच्छं मध्यं-मध्यभागो यस्याः सा, कृशोदरीत्यर्थः / सिता-शुभ्रा / प्रवरालकस्य-प्रवरकुन्तलस्य / अस्तेन्दुः-न्यक्कृतमृगाङ्का / कया ? | आस्यस्य-मुखस्य रुचा-कान्त्या / उरु-विस्तीर्णं पृष्ठमध्यासिता-अध्यारूढा / कस्य ? / अकम्प्रः-स्थिरो यो वरालको-देववाहनविशेषस्तस्य / / 4 / 9 / 36 //

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234