Book Title: Shobhan Stuti Vruttimala Part 01
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 166
________________ श्रीचन्द्रप्रभजिनस्तुतयः 135 (सा० सू० 703) कर्तरि आत्मनेपदे मध्यमपुरुषैकवचनं स्वः / ‘अप् कर्तरि' (सा० सू० 691) / 'द्विश्च' (सा० सू० 710) इति धातोद्धित्वं च / ‘ह्रस्वः' (सा० स० 713) इति पूर्वस्य ह्रस्वत्वम् / 'झपानां जबचपाः' (सा० सू० 714) इति दत्वम् / 'पूर्वस्य ङिति झसे धः' (सा० सू० 960) इति पूर्वपदस्य धत्वम् / 'दादेः' (सा० सू० 957) इत्याकारलोपः / 'खसे चपा झसानां' (सा० सू० 89) इति धकारस्य तकारः / तथाच ‘विधत्स्व' इति सिद्धम् / अत्र ‘विधत्स्व' इति क्रियापदम् / का की ? / त्वम् / कं कर्मतापन्नम् ? / प्रयलम् / कस्मिन् ? / 'तनुमदवने' तनुः-शरीरं विद्यते येषां ते तनुमन्तः तेषां अवनंरक्षणं तस्मिन् / किंविशिष्टा त्वम् ? / 'हेमतारा' हेम-सुवर्णं तदिव तारा हेमतारा, स्वर्णदेहेत्यर्थः / अन्यानि सर्वाण्यपि वज्राङ्कुश्याः सम्बोधनानि / तेषां व्याख्या यथा-हे 'अङ्कुशकुलिशभृत् !' / “हादिनी वज्रमस्त्री स्यात्, कुलिशं भिदुरं पविः” इत्यमरः (श्लो० 93) / अङ्कुशः-सृणिः, कुलिशं-वज्रं, अङ्कुशश्च कुलिशं च अङ्कुशकुलिशे ‘इतरेतरद्वन्द्वः', ते बिभर्तीति तथा, तस्याः सम्बोधनम् / हे 'स्वायत्यागे !' सुष्ठु-शोभन आयो-लाभः अर्थागमरूपः त्यागो-दानं अस्ति यस्य तस्य सम्बोधनं हे स्वायत्यागे ! / हे अध्यारूढे !आसीने ! / कस्मिन् ? / 'द्विपेन्द्रे' द्वाभ्यां शुण्डाग्राभ्यां पिबन्तीति द्विपाः-गजास्तेष्विन्द्र इवेन्द्रस्तस्मिन् द्विपेन्द्रे / कथंभूते ? | ‘अतिमत्ते' अतिशयेन मत्तः-क्षीबस्तस्मिन् / 'मदी हर्षे' 'रदाभ्यां निष्ठातो नः [पूर्वस्य च द.]' (पा० अ० 8, पा० 2, सू० 42) इति प्राप्तो निष्ठातस्य नकारः, 'न ध्यारव्यापृमूर्छिमदाम्' (पा० अ० 8, पा० 2, सू० 57) इति सूत्रेण निषिद्धस्तेन ‘मत्तः' इति निष्पन्नम् / अन्यथा मन्न इत्यनिष्टं स्यादिति ज्ञेयम् / पुनः कथंभूते ? / 'शशधरकरश्वेतभासि' शशधरः-चन्द्रमाः तस्य करः-कान्तिस्तद्वत् श्वेता-उज्ज्वला भाः-त्विड् यस्य तस्मिन् / “बलिहस्तांशवः कराः” इत्यमरः (श्लो० 2663) / पुनः कथंभूते ? | ‘अगे' अग इव पर्वत इव अगस्तस्मिन् पर्वतप्राये इत्यर्थः / अत्राभेदरूपकम् / कया ? / 'स्वायत्या' स्वस्य-आत्मनः आयतिः-आयामः दीर्घता इतियावत् तया हेतुभूतया / “दैर्घ्यमायाम आनाहः, परिणाहो विशालता आयतिश्च” इति केशवः / पुनः कथंभूते ? | 'अतनुमदवने' न तनु अतनु प्रभूतमित्यर्थः मदवनं-मदरूपं जलं यस्य तथा तस्मिन् / “जीवनं भुवनं वनं" इत्यमरः / (श्लो० 473), अतनुमद एव श्यामत्वात् वनं-काननं यस्येत्यर्थस्तथा च द्विपेन्द्रेस्त्वगोपमो वर्णितः, अगे च वनं भवेत्, तेनात्रापि प्रचुरमदरूपं वनमस्तीत्यभिप्रायः / अथावशिष्टं देवीसम्बोधनं हे 'अमतारातिमत्ते !' इति / अरातयः-शत्रवः विद्यन्ते यस्य सोऽरातिमान् तस्य भावः अरातिमत्ता, न मतानाभिप्रेता अरातिमत्ता यया सा तथा तस्याः सम्बोधनं हे अमतारातिमत्ते ! विरोधानभिलाषिणीत्यर्थः / मन्दाक्रान्ताच्छन्द: “मन्दाक्रान्ता मभनततगा गो यतिवेदषड्भिः” इति च तल्लक्षणम् / / 32 / / . // इति महोपाध्यायश्रीभानु० श्रीचन्द्रप्रभस्वामिस्तुतिवृत्तिः // 4 / 8 / 32 //

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234