Book Title: Satyashasan Pariksha
Author(s): Vidyanandi Acharya, Gokulchandra Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सत्यशासन-परीक्षा
[ & -
$ ६. कथमेकमेव 'परब्रह्मास्ति, परस्परं भिन्नानां नानात्मनां प्रतीतेरिति चेत्, न, एकस्यापि तस्य भूते भूते व्यवस्थितस्य जलेषु चन्द्रवत् अनेकधा प्रतिभाससंभवात् । तदुक्तम् — "एक एव तु भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥”
9
[ अमृतवि० उप० प० १२ पृ० १५ ] इति $७ तथा पृथिव्यादयोऽपि न ततस्तत्त्वान्तराणि तद्विवर्तत्वात् । तच्चोच्चावचचराचररूपप्रपञ्चस्यास्य ततँ एव जन्मादिभावात् । तथैवोक्तं भगवता बादरायणेन – “ जन्माद्यस्य यतः" [ ब्रह्मसू० १।१।२ ] इति ।
८. अथ कथं प्रपञ्चाध्यवसायविध्वंसन करात् परमपुरुषात् प्रपञ्चस्य जन्मादीति चेत्; न; अनाद्यविद्यासचिवादेव ततस्य भावात् ।
९. अविद्या तर्हि द्वितीया स्यादिति चेत्; तदसत् तस्याः सदसत्त्वविचाराभ्यां प्रमाणपदवीमविगाहमानायाः, अनिर्वाच्यत्वात् । तदुक्तम् —
“अनिर्वाच्याऽविद्या- द्वितय-सचिवस्य प्रभवतो विवर्ता यस्यैते वियदनिलतेजोऽवनयः । यतश्चाभूद् विश्वं चरमचरमुश्चावचमिदं नमामस्तद्ब्रह्मापरिमितसुखशानममृतम् ॥”
[
] इति
$१०. नन्वेवमपि विवर्तविवर्ते' द्वैतस्य भावात् कथमद्वैतसिद्धिरिति चेत्; न; विवर्तानां रज्वो' भुजङ्गाकास्वत् मायारूपाणामेव तस्मिन् प्रतिभासनात् । तदप्युक्तम्—
" यस्मिन् रज्जुभुजङ्गवत् त्रिभुवनं भाति भ्रमानिर्भये । सोऽहं नित्यनिरामयामृतवपुः संसारसारः परम् ॥”
[
] इति
$ ११. सकलोऽप्येष विवर्तः सत्यामविद्यायां प्रतिभाति, नत्वविद्यानिवृत्तौ । सा चाविद्यानिवृतिरेव मोक्षः । तस्य चोपायो ब्रह्मसाक्षात्कार एव । सोऽपि श्रवण-मनन-ध्यानैर्भवति । तथैव श्रुतिः - " आत्मा वा रे द्रष्टव्यः श्रोतव्योऽनुमन्तव्यो निदिध्यासितव्यः " [ बृहदा० २|४|५ ] तथा स्मृतिश्च --
" श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः । मत्वा च सततं ध्येय एते दर्शन हेतवः ॥ " [
।
$ १२. तत्रोपनिषवाक्यानां परब्रह्मणि० तात्पर्यावधारणं श्रवणम् विचारणं मननम् । श्रवणमननाभ्यां निश्चितार्थस्य मनसा परिचिन्तनं ध्यानम् ।
] इति
श्रुतार्थस्य युक्त्या तच्च नित्यानित्य
१. नानास्वरूपाणां घटपटाद्यर्थानाम् । २. मिनतवानि । ३. परमपुरुषात् । ४. परमपुरुषात् । ५. अविद्यायाः । ६. परमपुरुषे ।
For Private And Personal Use Only
1. परमब्रह्म० ख० । 2.
दनेदाताप्रक० । 3. भगता ख० । 4. जम्मादिति ख०, ग० । 5. तीयस्थादिति ष० । 6. यस्य विय० क० । यस्मैतत् विय० ग० । 7. विवर्ताविवर्ति क०, 8. रज्जौ क० । 9. दारः क०, ग० । दारा ख० । 10. परमब्रह्मणे ख० ।
ख० ।

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163