Book Title: Satyashasan Pariksha
Author(s): Vidyanandi Acharya, Gokulchandra Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 135
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -८] नैयायिकशासन-परीक्षा ८. तथैवं नैयायिकवैशेषिकसिद्धान्तस्य दृष्टेष्टविरुद्धत्वे सिद्धे चतुर्विधवर्णाश्रमवत् तदविधेयविविधाचारपुण्यपापपरलोकबन्धमोक्षतत्कारणतत्फलबद्धमुक्तादिस्वरूपप्रतिपादकोऽपि योगागमो न प्रमाणम् , दृष्टेष्टविरुद्धागमाभिन्नस्य तस्यातीन्द्रियेषु तत्कारणेषु च प्रामाण्यसंभावनानुपपत्तेरिति न तेषां धर्मानुष्ठानं प्रतिष्ठामियति । किं वा बहुभिरालापैः औलूक्यैः तार्किकैश्च लौकिक वैदिकं वा यत्किंचिदुच्यते तत्सर्व मृषैव तदभिमतसर्वतत्त्वानां संसर्गासंभवेन' शून्यत्वस्यापादितत्वादित्यलमतिप्रपञ्चेन, दृष्टेष्टविरुद्धत्वान्नैयायिकवैशेषिकमतयोरसत्यत्वसिद्धत्वात् । दृष्टेष्विष्टेषु दृष्टेष्टविरोधाद्यौगसंमतः । परोक्षेषु तदेकत्वादागमो न प्रमाणताम् ।। संसर्गहानेः सर्वार्थहानेयोगवचोऽखिलम् । भवेत्प्रलापमानत्वान्नावधेयं विपश्चिताम् ।। दृष्टेष्टाभ्यां विरुद्धत्वान्न सत्यं योगशासनम् । न च तेन प्रतिक्षेपः स्याद्वादस्येति निश्चितम् ॥ [इति नैयायिकशासन-परीक्षा ] १. समवायादिसम्बन्धामावेन । 1. द्वाश्चेति क०, ख०॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163