Book Title: Satyashasan Pariksha
Author(s): Vidyanandi Acharya, Gokulchandra Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 136
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ मीमांसक-भामाभाकरशासन-परीक्षा] [ पूर्वपक्षः] $ १. अथ मीमांसकमतमपि दृष्टेष्टविरुद्धम् । मीमांसकेषु तावदेवं भाट्टा भणन्ति–'पृथिव्यतेजोवायुदिक्कालाकाशात्ममनःशब्दतमांसि' इत्येकादशैव पदार्थाः, तदाश्रितगुणकर्मसामान्यादीनां तत्स्वभावत्वेन तादात्म्यसंभवान्न पदार्थान्तरमित्येवं पदार्थयाथात्म्यज्ञानात् कर्मक्षयो भवतीति । ६२. प्राभाकरास्तु "द्रव्यं गुणः क्रियाजातिसंख्यासादृश्यशक्तयः। समवायः क्रमश्चेति नव स्युर्गुरुदशने ॥" तत्र द्रव्या! [णि पृथिव्यादयः, ] गुणा रूपादयः क्रिया उत्क्षेपणादि । जातिः सत्ता द्रव्यत्वादि । संख्या एकत्वद्वित्वादिः । सादृश्यं गोप्रतियोगिकं गवयगतमन्यत् , गवयप्रतियोगिक गोगतं सादृश्यमन्यत् । शक्तिः सामर्थ्यम् , सा अनुमेयैव । गुणगुण्यादीनां संबन्धः समवायः । एकस्य निष्पादनानन्तरमन्यस्य निष्पादनं क्रमः, प्रथमाहुत्यादिपूर्णाहुतिपर्यन्तम् । इत्येवं नवैव पदार्थाः। एतेषां याथात्म्यज्ञानान्निःश्रेयससिद्धिरित्याचक्षते । ६३. किं च, वेदमधीत्य तदर्थ ज्ञात्वा तदुक्तनित्यनैमित्तककाम्यनिषिद्धानुष्ठानक्रम निश्चित्य तत्र विहितानुष्ठाने यः प्रवर्तते तस्य स्वर्गापवर्गसिद्धिर्भवति । त्रिकालसंध्योपासनजपदेवर्षिपिततर्पणादिकं नित्यानुष्ठानम् । दर्शपौर्णमासग्रहणादिषु क्रियमाणनैमित्तकानुष्ठानम् । तद्वयमपि नियमेन कर्तव्यम् । कुतः, "अकुर्वन् विहितं कर्म प्रत्यवायेन लिप्यते ।" [ ] इति वचनात् । पुत्रकाम्येष्ट्यादिकमहिकं काम्यानुष्ठानम् । ज्योतिष्टोमादिकमामुत्रिक काम्यानुष्ठानम् । श्येनाभिचरन् यजेत् ,' इत्यादिकं निषिद्धानुष्ठानम् । तत्क्रमं निश्चित्य तेष्वनुष्ठानेषु विहितानुष्ठाने यः प्रवर्तते स स्वर्गापवर्गों प्राप्नोति । ४. अपि च "न्यायार्जितधनस्तत्त्वज्ञाननिष्ठोऽतिथिप्रियः । श्राद्धकृत् सत्यवादी च गृहस्थोऽपि विमच्यते ॥" ] इति वचनात् । मुमुक्षणां प्रव्रज्यया भवितव्यमिति नियमो नास्ति । १. पापेन । २. श्येनयागेन । ३. गृहस्थो मोक्षमार्गस्थो" इत्यादि । तुलना-रस्नकर० श्लोक 1. द्रव्यादि गुणरूपादयः क०, ख० । 2. सानुमयैव क०, ख० । 3. निष्टातिथि क० । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163