Book Title: Satyashasan Pariksha
Author(s): Vidyanandi Acharya, Gokulchandra Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 138
________________ Shri Mahavir Jain Aradhana Kendra ૪૬ www.kobatirth.org सत्यशासन-परीक्षा “तादात्म्यमस्य कस्माच्चेत् स्वभावादिति गम्यताम् । Acharya Shri Kailassagarsuri Gyanmandir [ मी० श्लो० आकृति० श्लो० ४७ ] इत्यभिधानादिति चेत्, तेषां व्यक्तिवत्तस्यासाधारणसाधारण 'रूपत्वानुषंगात् । व्यक्त्युत्पादविनाशयोश्चास्यापि तद्योगित्वप्रसंगात् । $ १०. न सामान्यरूपता वा साधारणरूपत्वम्; उत्पादविनाशयोगित्वं चास्य नाभ्युपगम्यते, तर्हि विरुद्धधर्माध्यासतो व्यक्तिभ्योऽस्य भेदः स्यात् । उक्तं च ―――― "तादात्म्यं चेन्मतं जातेर्व्यक्तिजन्मन्यजातता । नाशोऽनाशश्च केनेस्तद्वश्चानन्वयो न किम् || व्यक्तिजन्मन्यजाता चेदागता । नाश्रयान्तरात् । प्रागासीन च तद्देशे सा तया संगता कथम् ॥ व्यक्तिनाशे न चेन्नष्टा गताव्यक्त्यन्तरं न च । तच्छून्ये न स्थिता देशे सा जातिः क्केति कथ्यताम् ॥ व्यक्तर्जात्यादियोगेऽपि यदि जातेः सं नेष्यते । तादात्म्यं कथमिष्टं स्यादनुपप्लुतचेतसाम् ||" [ हेतुबि० टी० पृ० ३२] इत्येवमनेकदोषदुष्टत्वात् याज्ञिकानुज्ञातसामान्यं खरविषाणवदसदेव स्यात् । ११. यत्तु तत्सद्भावसाधनमुक्तं परैः [ १० "पिण्डभेदेषु गोबुद्धिरेकगोत्वनिबन्धना । गवाभास्ये करूपाभ्यामेक गोपिण्ड बुद्धिवत् ॥” [ मी० श्लो० वन० श्लो० ४४ ] "न | शाबलेयाद् गोबुद्धिस्ततोऽन्यालम्बनापि वा । तदभावेऽपि सद्भावाद् घटे पार्थिवबुद्धिवत् ॥” [ मी० श्लो० वन० श्लो० ४] सदृशपरिणामलक्षणसामान्यालम्बनत्व इत्यादि तत्सर्वं सिद्धसाधनम् ; अनुवृत्तप्रत्ययस्य सिद्धेः । $ १२. न हि वयं बौद्धवत् सामान्यस्यापवोतारः; केवलं परपरिकल्पित सर्वथा नित्यस्वादि दविशेषणविशिष्टमेव सामान्यं न मृष्यामहे । सर्वथा नित्यस्यैकस्यानष्टस्य सर्वगतस्य विचार्य - माणस्यासंभवात् । $ १३. 'नित्यं सदादि सामान्यं प्रत्यभिज्ञायमानत्वात्, शब्दवत्' इति चेत्, न; हेतो विरुद्धत्वात् । कथंचिन्नित्यस्य इष्टविरुद्धस्य साधनात् । सर्वथा नित्यस्य प्रत्यभिज्ञानायोगात् । तदेवेदमितिपूर्वोत्तर पर्यायव्यापिनैकत्र प्रत्ययस्योपपत्तेः, पौर्वापर्यरहितस्यै पूर्वापरप्रत्ययविषयत्वासंभवात् । For Private And Personal Use Only १. जात्यादियोगः । २ नैयायिकादिपरिकल्पित । ३. कूटस्थ नित्यस्य । 1. - स्यासाधारणरूप - क० 1 2 - दुध्यासतो क०, ख० । 3. -ता गता ख० । 4. चावत् क० । 5. - स्थानंस्तस्य क० । स्थानंशस्य ख० ।

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163