Book Title: Satyashasan Pariksha
Author(s): Vidyanandi Acharya, Gokulchandra Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 139
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org -१६ मीमांसक-भाट्टप्राभाकरशासन-परीक्षा $१४ धर्मावेव पूर्वापरभूतौ न धर्मिसामान्यमिति चेत्, कथं तदेवेदमित्यभेदप्रतीतिः, पूर्वापर स्वरूपयोरतीतवर्तमानयोः तदित्यतीतपरामर्शिना स्मरणेन इदमिति वर्तमानोल्लेखिना प्रत्यक्षेण च विषयीक्रियमाणयोः परस्परं भेदात् । Acharya Shri Kailassagarsuri Gyanmandir $ १५. सदादिसामान्यादेकस्मात्तयोः कथंचिद्भेदाभेदप्रतिपत्तिरिति चेत्, सिद्धं तस्य कथंचिदनित्यत्वम्, अनित्यस्वधर्माव्यतिरेकात् । न ह्यनित्यादभिन्नं नित्यमेव युक्तम्, अनित्यस्वात्मवत् सर्वथानित्यस्य क्रमयौगपद्याभ्यामर्थक्रिया विरोधाच्च । तदनित्यं सामान्यं विशेषादेशात् शब्दवत् । तत एवानेकं तद्वेत् । सदित्यादिस्वप्रत्ययाविशेषादेकं सत्तादिसामान्यमिति चेत्, न सर्वथास्वप्रत्ययाविशेषस्य।’सिद्धत्वात् प्रतिपदादिव्यक्ति सदित्यादिप्रत्ययस्य विशेषात् । तद्व्यक्तिविषयो विशेषप्रत्यय इति चेत् ; तर्हि ता व्यक्तयः सामान्यात् सर्वथा यदि भिन्नाः प्रतिपद्यन्ते, तदा यौगमतप्रवेशो मीमांसकस्य, स चायुक्तः, तन्मते संबन्धस्य निरस्तत्वात् तस्येति व्यपदेशानुपपत्तेः । ४७ " For Private And Personal Use Only $ १६. अथ कथंचिदभिन्नाः, तदा सिद्धं सामान्यस्य विशेषप्रत्ययविषयत्वम्, विशेषप्रत्ययविषयेभ्यो विशेषेभ्यः कथंचिदभिन्नस्य सामान्यस्य विशेषप्रत्ययविषयतोपपत्तेः विशेषस्वात्मवत् । ततो नैकमेव सत्तादिसामान्यम् । नाप्यनंशम् ; कथंचित् सांशत्वप्रतीतेः; सांशेभ्यो विशेषेभ्योऽनर्थान्तरभूतस्य सांशखोपपत्तेः तत्स्वात्मवत् । तथा सर्वगतं तत् सामान्यं व्यक्त्यन्तरालेऽनुपलभ्यमानत्यात् । तत्राभिव्यक्तत्वात्तस्यानुपलम्भ इति चेत्; तत एव व्यक्तिस्वात्मनोऽपि तत्रानुपलम्भोऽस्तु । तत्र तस्य सद्भावादेकप्रमाणाभावादसत्त्वा देवानुपलम्भ इति चेत्, सामान्यस्यापि विशेषभावादसत्त्वा - देवानुपलम्भोऽस्तु, व्यक्त्यन्तराले तस्यापि सद्भावावेदकप्रमाणाभावात्, प्रत्यक्षतस्तथाननुभवात्, खरविषाणादिवत् । न हि भिन्नदेशासु व्यक्तिषु सामान्यमेकम्, यथा स्थूणादिषु वंशादिरिति प्रतीयते, यतो युगपदभिन्न' देशस्वाधारवृत्तित्वे सत्येकत्वं तस्य सिद्ध्येत्, स्वाधारान्तराले अस्तित्वं साधयेदिति तदेवमनेकबाधकसद्भावात् भाट्टप्राभाकरैरिष्टं " [ भद्रं भूयात् ] १. अनित्यस्वात्मवत् । २. भेदात् । ३. यौगमते । ४. समवायस्य । 1. धर्मादेव क०, ख० । 2 - मर्थविरोधाच्च क०, ख० । - षः स्यासिद्धस्यात् क०, ख० । 4. विशेषाभाव - क०, ख० । 5. युगपद् भिन्न ख० । 6. रन्तरालेऽपि क० ।

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163