Book Title: Satyashasan Pariksha
Author(s): Vidyanandi Acharya, Gokulchandra Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मीमांसक-भाट्टप्राभाकरशासन-परीक्षा
५. तत्रापि -
"मोक्षार्थो न प्रवर्तेत तत्र काम्यनिषिद्धयोः। नित्यनैमित्तिके कुर्यात् प्रत्यवायजिहासया ॥"
[ मी० श्लो० संबन्ध० श्लो० ११० ] इति भाट्टाः। प्रत्यवायपरिहारकामेन नित्यनैमित्तकानुष्ठानयोः प्रवर्तनात् । तयोरपि काम्यानुष्ठानकुक्षौ निक्षेपात् तत्करणमपि मोक्षकांक्षिणाऽनवधीयते इति प्राभाकराः प्रत्यूचिरे। [ उत्तरपक्षः ]
$ ६. तदेतन्मीमांसकमतं तावद् दृष्टविरुद्धम्, मीमांसकाख्यै हैः प्राभाकरैश्च पृथिव्यादयोऽर्थाः सत्तादिसामान्यतोऽनुव्यज्यन्ते। तच्च सत्तादिसामान्यं सर्वथा नित्यं निरवयवमेकं व्यापकमिति तैरभिमतम् ; तत्तु प्रत्यक्षविरुद्धमेव, सदृशपरिणामलक्षणस्य सामान्यस्यानित्यस्यासर्वगतस्य रूपादिवदनेकव्यक्तात्मतयाऽनेकरूपस्यैव प्रत्यक्षतः प्रतीतेः। न हि भिन्नदेशासु व्यक्तिषु सामान्यमेकं प्रत्यक्षतः स्थूणादौ वंशादिवत् प्रतीयते; व्यक्तेरुत्पादविनाशेऽपि अनुत्पादमविनाशं वा यतस्तत्प्रत्यक्ष स्यात् । तदिदं परोदितस्वरूपं सामान्यं प्रत्यक्षबुद्धावात्मानं न समर्थयति प्रत्यक्षतां च स्वीकर्तुमिच्छतीत्यमूल्यदानक्रयित्वात् सतामुपहासास्पदमेव स्यात् ।
६७. तथापि यदि याज्ञिका वैयात्यात् तथैवेति विवदन्ते, तर्हि तत्र ब्रूमः; एकत्र व्यक्ती सर्वात्मना वर्तमानस्य अन्यत्र वृत्तिर्न स्यात् । तत्र हि वृत्तिः तद्देशे गमनात् , पिण्डेन सहोत्पादात्, तद्देशे सद्भावात् अंशवत्तया वा स्यात् , न तावद् गमनादन्यत्र पिण्डे तस्य वृत्तिः, निष्क्रियत्वोपगमात्। किं च पूर्वपिण्डपरित्यागेन तत्तत्र गच्छेत् , अपरित्यागेन वा, न तावत् परित्यागेन, प्राक्तनपिण्डस्य गोत्वपरित्यक्तस्य अगोरूपताप्रसंगात् , नाप्यपरित्यागेन, अपरित्यक्तपिण्डस्यास्यानंशरूपादेवि गमनासंभवात् । न ह्यपरित्यक्तपूर्वाधाराणां रूपादीनामाधारान्तरसंक्रान्तिदृष्टा । नापि पिण्डे (न] सहोत्पादात् , तस्यानित्यतानुषंगात् । नापि तद्देशे सत्त्वात् ; पिण्डोत्पत्तेः प्राक् तत्र निराधारस्यास्याव्यवस्थानाभावात् , भावे वा स्वाश्रयमात्रवृत्तित्वविरोधः । नाप्यंशवत्तया; निरंशत्वप्रतिज्ञानात् । ततो व्यक्त्यन्तरे सामान्यस्याभावानुषंगः ।
६८. परेषां प्रयोगः-ये यत्र नोत्पन्ना नापि प्रागवस्थायिनो नापि पश्चादन्यतो देशादागतमन्तः ते तत्रासन्तो, यथा खरोत्तमाझे तद्विषाणम् , तथा च सामान्यं तच्छून्यदेशोत्पादवति घटादिके वस्तुनीति । तदुक्तम् -
"न याति न च तत्रासीदस्ति पश्चान्न चांशवत् । जहाति पूर्वमाधारमहो व्यसनसंततिः ॥"'
] इति $ ९. नन्वेष दोषो भेदवादिनामेव न तु मीमांसकानाम् , तैः सामान्यव्यक्त्योस्तादात्म्याङ्गीकरणात् ।
१. सामान्यस्य इति शेषः । २. सामान्यम् । 1. -थीं प्रव- क० ख० । 2 मान स्यात् स्यान्य- क०, ख० । 3. पिण्डे सहो, क०, ख० ।
For Private And Personal Use Only

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163