________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-८]
नैयायिकशासन-परीक्षा ८. तथैवं नैयायिकवैशेषिकसिद्धान्तस्य दृष्टेष्टविरुद्धत्वे सिद्धे चतुर्विधवर्णाश्रमवत् तदविधेयविविधाचारपुण्यपापपरलोकबन्धमोक्षतत्कारणतत्फलबद्धमुक्तादिस्वरूपप्रतिपादकोऽपि योगागमो न प्रमाणम् , दृष्टेष्टविरुद्धागमाभिन्नस्य तस्यातीन्द्रियेषु तत्कारणेषु च प्रामाण्यसंभावनानुपपत्तेरिति न तेषां धर्मानुष्ठानं प्रतिष्ठामियति । किं वा बहुभिरालापैः औलूक्यैः तार्किकैश्च लौकिक वैदिकं वा यत्किंचिदुच्यते तत्सर्व मृषैव तदभिमतसर्वतत्त्वानां संसर्गासंभवेन' शून्यत्वस्यापादितत्वादित्यलमतिप्रपञ्चेन, दृष्टेष्टविरुद्धत्वान्नैयायिकवैशेषिकमतयोरसत्यत्वसिद्धत्वात् ।
दृष्टेष्विष्टेषु दृष्टेष्टविरोधाद्यौगसंमतः । परोक्षेषु तदेकत्वादागमो न प्रमाणताम् ।। संसर्गहानेः सर्वार्थहानेयोगवचोऽखिलम् । भवेत्प्रलापमानत्वान्नावधेयं विपश्चिताम् ।। दृष्टेष्टाभ्यां विरुद्धत्वान्न सत्यं योगशासनम् । न च तेन प्रतिक्षेपः स्याद्वादस्येति निश्चितम् ॥
[इति नैयायिकशासन-परीक्षा ]
१. समवायादिसम्बन्धामावेन । 1. द्वाश्चेति क०, ख०॥
For Private And Personal Use Only