________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ नैयायिकशासन-परीक्षा] [ पूर्वपक्षः ] $ १. वैशेषिकसमसिद्धान्ता नैयायिकास्त्वेवमामनन्ति
"प्रमाण-प्रमेय-संशय-प्रयोजन-दृष्टान्त-सिद्धान्त-अवयवन्तर्क-निर्णय-वाद-जल्प-वितण्डाहेत्वाभास छल-जाति-निग्रहस्थानानां तत्त्वज्ञानान्निःश्रेयसाधिगमः।"
[ न्यायसू० १।१।१] ६२. किं च, भक्तियोग-क्रियायोग-ज्ञानयोगत्रयैर्यथासंख्यं सालोक्यं सारूप्यं सामीप्यं सायुज्यं मुक्तिर्भवति ।
$ ३. तत्र महेश्वरः स्वामी स्वयं भृत्य इति तच्चित्तो भूत्वा यावज्जीवं तस्य परिचर्याकरणं भक्तियोगः, तस्मात्सालोक्यमुक्तिर्भवति ।
४. तपःस्वाध्यायानुष्ठानं क्रियायोगः। तत्रोन्मादकादिव्यपोहार्थमाध्यामिकादिदुःखसहिष्णुत्वं तपः, प्रशान्तमन्त्रस्येश्वरवाचिनोऽभ्यासः स्वाध्यायः, तदुभयमपि क्लेशकर्मक्षयाय समाधिलाभाय चानुष्टेयम् । तस्माक्रियायोगात् सारूप्यं सामीप्यं वा मुक्तिर्भवति । विदितपदार्थस्येश्वरप्रणिधान1 ज्ञानयोगः ।
५. परमेश्वरतत्त्वस्य प्रबन्धेनानुचिन्तनं पर्यालोचनमीश्वरप्रणिधानम् । तस्य योगस्य यम-नियम-आसन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधयः अष्टाङ्गानि । तत्र देशकालावस्थाभिरनियताः पुरुषस्य विशुद्धवृत्तिहेतवो यमाः । अहिंसाब्रह्मचर्यास्तेयादयः देशकालावस्थापेक्षिणः पुण्यहेतवः क्रियाविशेषा नियमाः देवार्चन-प्रदक्षिण-संध्योपासन-जपादयः । योगकर्मविरोधिक्लेशजपाद्यर्थश्च रणबन्धः आसनम् । पद्मकस्वस्तिकादेः कोष्ठस्य वायोर्गतिच्छेदः प्राणायामः रेचकपूरककुम्भकप्रकारः शनैःशनैरभ्यसनीयः । समाधिप्रत्यनीकेभ्यः समन्तात् स्वान्तस्य व्यावर्तनं प्रत्याहारः। चित्तस्य देशसंबन्धो धारणा। तत्रैकतानता ध्यानम् । ध्यानोत्कर्षान्निर्वाताचलप्रदीपावस्थानमिवैकत्र चेतसावस्थानं समाधिः । एतानि योगान्तानि मुमुक्षुणा महेश्वरे परां भक्तिमाश्रित्याभियोगेन सेवितव्यानि । ततोऽचिरेण कालेन भवन्तमनौपम्यस्वभावं प्रत्यक्षं पश्यति; तं दृष्टा निरतिशयं सायुज्यं निःश्रेयसं प्राप्नोति । [ उत्तरपक्षः]
६. तदेतत्तार्किकमतं दृष्टेष्टविरुद्धम् । प्रागनन्तरं प्रतिपादितप्रकारेणैव प्रत्यक्षानुमानविरोधयोरत्राप्युपपत्तेः, अतो नात्र पृथक तद्विरोधसमर्थनमुपक्रम्यते ।
७. किं च, तदभ्युपगतपदार्थेषु इन्द्रियबुद्धिमनसाम् अर्थोपलब्धिसाधकत्वेन प्रमाणत्वात् प्रमेयेष्वन्तर्भावानुपपत्तेः, अन्यथैकानेकात्मकत्वसिद्धेः । संशयादीनां प्रमेयत्वे च व्यवस्थानानुपपत्तेः । विपर्ययानध्यवसाययोः प्रमाणादिषोडशपदार्थेभ्योऽर्थान्तरभूतयोः प्रतीतेश्च न षोडशपदार्थव्यवस्था ।
१. तन्मतेनैव । २. प्रमाणाविषयत्वे । 1, प्रणवानं कर। 2. संमतात् क० ।
For Private And Personal Use Only