Book Title: Satyashasan Pariksha
Author(s): Vidyanandi Acharya, Gokulchandra Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 120
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सत्यशासन-परीक्षा [४४४४. तत्कार्याणां तदपेक्षा न पुनर्नित्यस्य क्षणिकस्य चेत्यपि न श्रेयः; तेषां तदकार्यत्वप्रसंगात् । $ ४५. तत्सहितेभ्यः सहकारिभ्यः कार्याणामुत्पत्तेः, अन्यथाऽनुत्पत्तेस्तत्कार्यत्वनिर्णयः इति चेत् तर्हि येन स्वभावेनैकेन सहकारिणा सहभावः तेनैव सर्वसहकारिणा यदि तस्य स्यात् तदैककार्यकरणे सर्वकार्यकरणात् क्रमकार्यानुत्पत्तिः। सहकार्यन्तराभावेऽपि च तत्सहभावात् सकृदेव सकलकार्योत्पत्तिः प्रसज्येत । स्वभावान्तरैः सहकार्यन्तरसहभावे तस्य क्रमाक्रमवृत्त्यनेकस्वभावत्वसिद्धेः कुतो नित्यमेकत्वस्वभावं क्षणिकं वा वस्तु क्रमयोगपद्ययोर्व्यापकं स्यात्, कथंचिन्नित्यस्यैव क्रमाक्रमानेकस्वभावस्य तद्व्यापकत्वप्रतीतेः। ४६. एतेन विपक्षे हेतोर्बाधकस्य व्यापकानुपलम्भस्य व्यतिरेकनिश्चयः कथंचिन्नित्ये प्रत्यक्षप्रवृत्तेः प्रदर्शितः प्रत्येयः । ततः सत्यं कथंचिन्नित्यमेव साधयतीति सिद्धं शौद्धोदनिशासनमिष्टविरुद्धमिति । ४७. तथा च शुभाशुभानुष्ठान-पुण्य-पाप-श्वभ्र-स्वर्गादि-परलोक--बन्ध--बन्धकारणमोक्ष-मोक्षकारण-बन्धमोक्षफल-बद्ध-मुक्तादिपरोक्षतत्कारणस्वरूपप्रतिपादकोऽपि बौद्धागमो न प्रमाणम् ; दृष्टेष्टविरुद्धागमसमकर्तृकस्य तस्यातीन्द्रिये प्वतितरामप्रामाण्यापत्तेरिति न बौद्धानां धर्मानुष्ठानं प्रतिष्ठामियति । किंबहुना, बौद्धैर्यदयदभिधीयते तत्सर्वमसदेव तदभिमतसर्वतत्त्वस्य शून्यत्वात् । ४८. तथा हि विकल्पोऽभिलापसंबन्धार्थग्रहणरूपः परैरिष्टः । स च नास्त्येव । न हि तावद्विषयस्याभिलापेन तद्गतेनैव संबन्धः, तत्र तदभावात् । स्मरणोपनीतेन 'संकेतकालप्रतिपन्नेनेति चेत् ; न; स्मरणस्य निर्विकल्पकत्वे तद्विषयस्य स्वलक्षणत्वे न कचिदुपनयनानुपपत्तेः । व्यवसायरूपत्वे च तेनापि स्वविषयोऽभिला पसंबन्ध एव स्मर्त्तव्यः । तदभिलापोऽपि तथाविध एव तत्स्मरणेनेत्यनवस्थितिप्रसंगात् । स्मरणस्य तदनभिसंबन्ध वस्तुवेदित्वेऽपि व्यवसायस्वभावत्वे प्रत्यक्षस्यापि तत्किं न स्यात्, 'स्वाभिधानविशेषापेक्षया एवार्था निश्चयैर्व्यवसीयन्ते' इत्येकान्तत्यागात् । नाम्नः स्वलक्षणस्यापि स्वाभिधानविशेषानपेक्षस्यैव व्यवसायवचनात् । ४९. एवमनवस्थादिदोषोपनिपातान्नामस्मरणोभावेन कचिद्विकल्पा न 10सिद्धयेत् । स्मरणोपनीतनामसंबद्धार्थग्रहणस्यैव11 विकल्पत्वात् । विकल्पाभावेन न13 क्वचित्प्रत्यक्षम् । अकृतविकल्पेन प्रत्यक्षेण बहिरन्ती गृहीतस्याप्यगृहीतकल्पत्वात् क्षणक्षयादिसंवेदनवत् । प्रत्यक्षाभावे न क्वचिदनुमानम् 14प्रत्यक्षपूर्वकत्वात्तस्येति सकलप्रमाणाभावः। तदभावे सकलप्रमेयाभावः, प्रमाणापाये प्रमेयव्यवस्थानुपपत्तेरिति सौगताभिमतं सर्वं तत्त्वं शून्यमेव स्यात् । १. क्रमाक्रमयोापकयोरनुपलम्भः । २. “विकल्पो नाम संश्रयः" [प्र. वा० २।१२३ ] इत्यभिधानात् । ३. प्रमाणामावे । 1. -मेकस्व., ग० । 2. भावा क०। 3. सत्त्वम् क०, ख० । 4. -मोक्षबद्ध- ख० । 5. -पति- क०, ख० । 6. प्रामाण्योपपत्तेरि-क०, खः। 7. -नीते सं. ख०। 8. संबद्ध- क०, खः । 9. साभि -क०, ख०। 10. -कल्पः सिद्धयत् ग। 11. संबन्धार्थ- ग०। 12. विकल्पात् क०, ख. । 13. 'न' ख प्रतौ नास्ति । 14. -मानप्रत्यक्षकत्वात् क०, ख० । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163