Book Title: Satyashasan Pariksha
Author(s): Vidyanandi Acharya, Gokulchandra Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 128
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सत्यशासन-परीक्षा [१० १०. ननु समवायात्तेभ्योऽवय व्यादिरर्थान्तरमिव प्रतिभासत इति चेत ; न, अवयव्यादिप्रत्यक्षस्य सर्वत्र भ्रान्तत्वप्रसंगात् , तिमिराशुभ्रमणनौयानसंक्षोभाद्याहितविभ्रमस्य 'धाववादिदर्शनवदसदाकारविशिष्टार्थग्रहणात् । तथा चाव्यभिचारित्वं प्रत्यक्षलक्षणमसंभवि स्यात् ।। ११. न चैते अवयवादयः, इमे अवयव्यादयः, समवायश्च तेषामयमिति प्रत्यक्षबुद्धौ 'विस्रसा भिन्ना सकृदपि प्रतीयन्ते प्रत्यक्षतां च स्वीकर्तुमिच्छन्तीति तेऽमी अमूल्यदानक्रयिणः; प्रत्यक्षबुद्धावात्मानर्पणेन प्रत्यक्षतास्वीकरणात् । १२. न च परोपवर्णितस्वरूपः समवाय एव व्यवतिष्ठते । यतो भिन्नानामभेदप्रतिभास इप्यते । तथा हि नित्यव्यापकैकरूपतया परैरभिमतः स समवायः समदाय्याश्रितोऽनाश्रितो वा, यदाश्रितः तदा परमार्थतः, उपचाराद्वा, तत्र न परमार्थतः समवायः समवाय्याश्रितः तयोः संबन्धाभावात् । न हि तावत्तयोः समवायः संबन्धः; समवायस्यकत्वात् । समवायस्य समवायान्तरेण वृत्तौ तस्यापि तदन्तरेणैव वृत्तिरित्यनवस्थोपनिपातात् । नापि संयोगः, तस्य गुणत्वेन द्रव्याश्रितत्वात , द्रव्यत्वाच्च समवायस्य । नापि विशेषणविशेप्यभावः; संबन्धान्तराभिसंबद्धार्थेष्वेवास्य प्रवृत्तिप्रतीतेः दण्डपुरुषादिवत , अन्यथा सर्व सर्वस्य विशेषणं विशेष्यं च स्यात् । न च समवायसमवायिनां संबन्धान्तराभिसंबद्ध त्वम् ; संयोगसमवाययोरनभ्युपगमात् विशेषणविशेष्यभावान्तरेण संबद्धत्वे तस्यापि तदन्तरेण संबद्धेष्वेव प्रवृत्तिरित्यनवस्थानात् । नाप्यदृष्टम् , षोढा संबन्धवादित्वव्याघातात् । यदि चादृष्टेन समवायः संबद्धयेत् । तर्हि गुणगुण्या दयोऽप्यत एव संबद्धा भविष्यन्तीत्यलं समवायादिकल्पनयेति न संबन्धान्तरेण समवायस्य संबन्धः सिद्धयति । ... १३. ननु न समवायस्य संबन्धान्तरेण संबन्धोऽस्माभिरिष्टः येनानवस्थादिदोषाः स्युः, अपि तु अग्नेरुष्णतावत् स्वत एवास्य संबन्धो युक्तः स्वत एव संबन्धरूपत्वात् , न संयोगादीनां तदभावात् । न ह्येकस्य स्वभावोऽन्यस्यापि, अन्यथा स्वतोऽग्नेरुष्णत्वदर्शनात् जलादीनापि तत्स्यादिति चेत् ; तदपि प्रलापमात्रम् ; यतः प्रत्यक्षप्रसिद्ध पदार्थस्वभावे स्वभावैरुत्तरं वक्तुं युक्तम् । "प्रत्यक्षेण प्रतीतेऽर्थे यदि पर्यनुयुज्यते । स्वभावैरुत्तरं वाच्यं दृष्टे काऽनुपपन्नता ॥" ] इति वचनात् । अन्यथा तथोत्तरेण सर्वस्य स्वेष्टसिद्धिप्रसंगात् । $ १४. न च समवायस्य स्वतः संबन्धत्वं संयोगादीनां तु तस्मादित्यध्यक्षप्रसिद्धम्; तत्स्वरूपस्याध्यक्षागोचरत्वप्रतिपादनात् । “अत एवातीन्द्रियः सत्तादीनामिव प्रत्यक्षेषु वृत्त्यभावात् , स्वात्मगतसंवेदनाभावाच्च ।” [प्रश० भा० पृ० ६९७] इति'' प्रशस्तपादभाष्येऽभिधानात् । १. गच्छवृक्षादिदर्शनवत् । २. 'इन्द्रियार्थसन्निकर्षीत्पन्नमव्यपदेश्यव्यभिचारि व्यवसायात्मक प्रत्यक्षम्' -न्यायसू० १११।४ । ३. स्वभावेन । ४. समवाय-समवायिनोः । ५. संयोगस्य । ६. विशेषविशेष्यमावस्य । ७. संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायः, विशेषण विशेष्यभावश्चेति । ८. अदृष्टादेव । ९. स्वतः संबन्धरूपत्वाभावात् । १०. 'स्वभावात्' इत्युत्तरेण । ११. 'तस्मादिह बुद्धयनुमेयः समवायः' -प्रश. भा० । 1. एतदन्तर्गतः पाठःक०, ख० प्रती नास्ति । 2. रोक्षव-क०, ख०। 3. वृत्तिरित्यवस्थो- खब। 4. समबन्धत्वम् क०। 5. गुणादयोऽपि ग० । 6. ननु सम-क०, ख० । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163