Book Title: Satyashasan Pariksha
Author(s): Vidyanandi Acharya, Gokulchandra Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७]
वैशेषिकशासन-परीक्षा इति वचनात् । तथा भूतचतुष्टयासत्त्वे 'परापरादिप्रत्ययापायात् । ' इदमतः पूर्वेण' इत्यादि प्रत्ययापायाच्च [न ] कालो दिक्च व्यवतिष्ठते । तथा भेरीदण्डाद्याकाशसंयोगाभावात्
संयोगजशब्दस्यानुत्पत्तिः, सर्वत्रावयवसंयोगाभावे तद्विभागस्याप्ययोगाद विभागजशब्दस्याप्यनुत्पत्तिः; तयोरनुदये शब्दजशब्दस्यासम्भवः; इति सकलशब्दानुत्पत्तेराकाशव्यवस्थापकोपायादाकाशहानिः । तथा आत्मान्तःकरणसंयोगासिद्धेः बुद्धयादिगुणानुत्पत्तिः; तदभावे चात्मव्यवस्थाप३ कोपायासत्त्वादात्मतत्त्वहानिः । तथा बुद्धयनुत्पत्तौ मनसोऽसिद्धिः; क्रमतो ज्ञानोत्पत्तेर्मनोलिङ्गत्वात्। "युगपज्ञानानुत्पत्तिर्मनसो लिङ्गम्" [ न्यायसू० १।१।१६ ] इति वचनात् ।
२५. *एवं संयोगाभावे सर्वव्याभावः । अथवा समवायाभावे सत्तासमवायासंभवात् सर्वद्रव्यः प्रच्युतः। सर्वद्रव्यहानौ तदाश्रितगुणकर्मसामान्यविशेषाणामसिद्धिः आश्रयाभावे सत्यायिणा[म] भावात् , *"तन्त्वभावे पटाभाववदिति । संसर्गहानेः सकलार्थहानिर्दुर्निवारा वैशेषिकाणामुपनिपतति । तदुक्त स्वामिसमन्तभद्रपादेः
"अभेदभेदात्मकमर्थतत्त्वं तव स्वतन्त्रान्यतरत्वपुष्पम् । अवृत्तिमत्त्वात् समवायवृत्तेः संसर्गहानेः सकलार्थहानिः॥"
[ युक्त्यनु० श्लो० ७ ] इति $ २६. एवं विचार्यमाणाः सर्वथाभिन्नावयवावयव्यादयः स्वयमेव न सन्ति यतः प्रत्यक्षेण प्रतिभासेरन् । तत्पत्यनीकाश्च कथंचिभिन्नास्ते प्रत्यक्षतः प्रतिभासन्त इति स्थितं दृष्टविरुद्धं शेषिकमतमिति।
२७. तथा तदिष्टविरुद्धं च । तथा हि-विवादापन्नं 'तनुकरणभुवनादिकं बुद्धिमद्धेतुकं कार्यत्वात् घटादिवत्' इति जगतो महेश्वरकृतत्वं योगैः व्यवस्थाप्यते, तच्चानुमानविरुद्धम् , तद्वाधकानुमानसद्भावात् । तच्चेदम्-नेश्वरस्तन्वादीनां कर्ता, अशरीरत्वात् , य एवं स एवम् , यथात्मा, तथा चायम् , तस्मात्तथैवेति । न चात्रासिद्धो हेतुः, तस्य शरीरत्वायोगात् । तच्छरीरस्य सावयवस्य नित्यत्वानुपपत्तेः । 1 नित्यस्यापि तच्छरीरस्य बुद्धिमत्कारणापूर्वकत्वे तेनैव कार्यत्वादिहेतूनां व्यभिचारात् । तस्य बुद्धिमत्कारणसपूर्वत्वे वा परापरशरीरकल्पनायामनवस्थाप्रसंगात् । पूर्वपूर्वस्य शरीरेणोत्तरोत्तरस्वशरीरोत्पत्तौ भवस्य निमित्तकारणत्वे सर्वसंसा। णां तथा प्रसिद्धेरीश्वरकल्पनावैयर्थात् । स्वोपभोग्यभुवनाद्युत्पत्तावपि तेषामेव निमित्तकारणत्वोपपत्तेरिति; तत् कार्यत्वा
चेतनोपादानत्वसन्निवेशविशिष्टहेतवो गमकाः स्युः । “अशरीरंपावसन्तंन प्रियाप्रिये स्पृशतः।" [छान्दो० ८।१२।१] इत्यागमविरोधाच्च ।
१. देशापेक्षया अपरस्मिन् परं युगपश्चिरं क्षिप्रमिति कार्यलिङ्गानि । २. इदमतो दक्षिणेनेत्यादि। ३. भेर्याशाशसंयोगो निमित्तकारणम् । ४. अवयवविमागस्यापि । ५, संयोगजविभागजशब्दयोरमावे । ६. अवयम्यादयः । ७-८. ईश्वरस्य ।
1. प्रत्ययादिदमतः क०, ख०। 2. संयोगशब्द- क०, ख०। 3. -कोपायसत्व-ग० । 4. -यिणामावा-क०, ख० । 5. - एतदन्तर्गतः पाठः ग० प्रतो नास्ति । 6. प्रत्यक्षे प्रति-क०, ख० । 7. कथंचिदभिक्षाः क०, ख० । 8. नानासिद्धो क०, ख० । 9. सावयस्य क०, ख० । 10. -तेरनित्यस्यापि खः । 11. भुवनाधुत्तावपि क०, ख० । 12. -रं नावसन्तं क०, खः ।
For Private And Personal Use Only

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163