Book Title: Satyashasan Pariksha
Author(s): Vidyanandi Acharya, Gokulchandra Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 126
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [वैशेषिकशासन-परीक्षा] [ पूर्वपक्षः ] 5 १. अथ वैशेषिकमतमपि दृष्टेष्टविरुद्धम् । तावदिदं हि तेषामाकूतम्बुद्धिसुखदुखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराणां नवानामात्मविशेष गुणानामत्यन्तोच्छित्तावात्मनः स्वात्मन्यवस्थानं मोक्षः, अन्यथा आत्मनोऽत्यन्तविशुद्धयभावादिति । "द्रव्यगुणकर्मसामान्यविशेषसमवायानां पदार्थानां साधर्म्यवैधय॑तत्त्वज्ञान निःश्रेयसहेतुः।" [प्रश० भा० पृ० ६ ] शैवपाशुपतादिदीक्षाग्रहण-जटाधारण-त्रिकालभस्मोद्धूलनादितपोऽनुष्ठानविशेषश्च । २. “तत्र द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि सामान्यविशेषसंझोक्तानि नवैव। तद्व्यतिरेकेण संज्ञान्तरानभिधानात् ।" "गुणाः रूप-रस गन्ध-स्पर्शसंख्या-परिमाण-पृथक्त्व-संयोग-विभाग-परत्व-अपरत्व-बुद्धि-सुख-दुःख-इच्छा-द्वेष-प्रयत्नाश्च कण्ठोक्ताः सप्तदश, चशब्दसमुच्चिताश्च गुरुत्व-द्रवत्व-स्नेह-संस्कारादृष्टशब्दाः सप्तेवेत्येवं चतुर्विंशतिगुणाः।" [ प्रश० भा. पृ० १०] "उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानीति पञ्चैव कर्माणि। गमनग्रहणाभ्रमणरेचनस्पन्दनोप्रज्वलनतिर्यग्पतननमनोन्नमनादयो गमनविशेषा न जात्यन्तराणि ।" [प्रश० भा०, पृ० ११ ] "सामान्य विविधम् , परमपरं चानुवृत्तिप्रत्ययकारणम्। $३. "तत्र परं सत्ता महाविषयत्वात् , सा चानुवृत्तरेव हेतुत्वात् सामान्यमेव । द्रव्यत्वाद्यपरम् अल्पविषयत्वात् । तश्च व्यावृत्तेरपि हेतुत्वात्सामान्यं सद्विशेषाख्यामपि लभते । नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः। ते खल्वत्यन्तव्यावृत्तिबुद्धिहेतुत्वात् विशेषा एव । अयुतसिद्धानामाधार्याधारभूतानां यः संबन्ध इह प्रत्ययहेतुः स समवायः। ४. “एवं धविना धर्मिणामुद्देशः कृतः। षण्णामपि पदार्थानां साधर्म्यमस्तित्वमभिधेयत्वं शेयत्वम् । प्राश्रितत्वं चान्यत्र नित्यद्रव्येभ्यः । द्रव्यादीनां पञ्चानामपि समवायित्वमनेकत्वं च । 'गुणादीनां पञ्चानामपि निगुर्णत्व-निष्क्रियत्वे।" [प्रश० भा०, पृ० १११६] इत्याद्यनेकविधं साधयं वैधयं चेति तत्त्वज्ञानं मोक्षहेतुः। तद्यथा, "दुःखजन्मप्रवृत्तिदोषमिथ्याशानानामुत्तरोत्तरापाये तदनन्तराभावादपवर्गः।" [न्यायसू० १।१।२] $ ५. तत्र तत्त्वज्ञानान्मिथ्याज्ञानं निवर्तते; मिथ्याज्ञानानिवृत्तौ तज्जन्यरागद्वेषनिवृत्तिः; तद्दोषनिवृत्तौ तज्जन्यकायवाङ मनोव्यापाररूपप्रवृत्तिनिवृत्ति-:; तत्प्रवृत्तिनिवृत्तौ तज्जन्यपुण्यपाप १. 'नवानामात्मविशेषगुणानामत्यन्तोच्छित्तिर्मोभः ।'-प्रश० व्यो० पृ० ६३८ । २. 'धर्मविशेषप्रसूताद् द्रव्यगुणकर्मसामान्यविशेषसमवायानां पदार्थानां साधयंवैधाभ्यां तत्त्वज्ञामिःश्रेयसः।वैशे० सू० ११७४। ३..किं तु गमन एवान्त तानि। ४. नित्यद्रयाणि न कार्यद्रव्यवत् स्वकारणाश्रितानि भवन्ति । 1. नवानामारमगुणविशेषाणाम् क०, ख० । 2. -दीनामपि क०, ख० । 8.-त्तरपाये क०, ख० । 4. प्रवृत्तिनिवर्तते खः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163