________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[वैशेषिकशासन-परीक्षा] [ पूर्वपक्षः ]
5 १. अथ वैशेषिकमतमपि दृष्टेष्टविरुद्धम् । तावदिदं हि तेषामाकूतम्बुद्धिसुखदुखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराणां नवानामात्मविशेष गुणानामत्यन्तोच्छित्तावात्मनः स्वात्मन्यवस्थानं मोक्षः, अन्यथा आत्मनोऽत्यन्तविशुद्धयभावादिति । "द्रव्यगुणकर्मसामान्यविशेषसमवायानां पदार्थानां साधर्म्यवैधय॑तत्त्वज्ञान निःश्रेयसहेतुः।" [प्रश० भा० पृ० ६ ] शैवपाशुपतादिदीक्षाग्रहण-जटाधारण-त्रिकालभस्मोद्धूलनादितपोऽनुष्ठानविशेषश्च ।
२. “तत्र द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि सामान्यविशेषसंझोक्तानि नवैव। तद्व्यतिरेकेण संज्ञान्तरानभिधानात् ।" "गुणाः रूप-रस गन्ध-स्पर्शसंख्या-परिमाण-पृथक्त्व-संयोग-विभाग-परत्व-अपरत्व-बुद्धि-सुख-दुःख-इच्छा-द्वेष-प्रयत्नाश्च कण्ठोक्ताः सप्तदश, चशब्दसमुच्चिताश्च गुरुत्व-द्रवत्व-स्नेह-संस्कारादृष्टशब्दाः सप्तेवेत्येवं चतुर्विंशतिगुणाः।" [ प्रश० भा. पृ० १०] "उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानीति पञ्चैव कर्माणि। गमनग्रहणाभ्रमणरेचनस्पन्दनोप्रज्वलनतिर्यग्पतननमनोन्नमनादयो गमनविशेषा न जात्यन्तराणि ।" [प्रश० भा०, पृ० ११ ] "सामान्य विविधम् , परमपरं चानुवृत्तिप्रत्ययकारणम्।
$३. "तत्र परं सत्ता महाविषयत्वात् , सा चानुवृत्तरेव हेतुत्वात् सामान्यमेव । द्रव्यत्वाद्यपरम् अल्पविषयत्वात् । तश्च व्यावृत्तेरपि हेतुत्वात्सामान्यं सद्विशेषाख्यामपि लभते । नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः। ते खल्वत्यन्तव्यावृत्तिबुद्धिहेतुत्वात् विशेषा एव । अयुतसिद्धानामाधार्याधारभूतानां यः संबन्ध इह प्रत्ययहेतुः स समवायः।
४. “एवं धविना धर्मिणामुद्देशः कृतः। षण्णामपि पदार्थानां साधर्म्यमस्तित्वमभिधेयत्वं शेयत्वम् । प्राश्रितत्वं चान्यत्र नित्यद्रव्येभ्यः । द्रव्यादीनां पञ्चानामपि समवायित्वमनेकत्वं च । 'गुणादीनां पञ्चानामपि निगुर्णत्व-निष्क्रियत्वे।" [प्रश० भा०, पृ० १११६] इत्याद्यनेकविधं साधयं वैधयं चेति तत्त्वज्ञानं मोक्षहेतुः। तद्यथा, "दुःखजन्मप्रवृत्तिदोषमिथ्याशानानामुत्तरोत्तरापाये तदनन्तराभावादपवर्गः।" [न्यायसू० १।१।२]
$ ५. तत्र तत्त्वज्ञानान्मिथ्याज्ञानं निवर्तते; मिथ्याज्ञानानिवृत्तौ तज्जन्यरागद्वेषनिवृत्तिः; तद्दोषनिवृत्तौ तज्जन्यकायवाङ मनोव्यापाररूपप्रवृत्तिनिवृत्ति-:; तत्प्रवृत्तिनिवृत्तौ तज्जन्यपुण्यपाप
१. 'नवानामात्मविशेषगुणानामत्यन्तोच्छित्तिर्मोभः ।'-प्रश० व्यो० पृ० ६३८ । २. 'धर्मविशेषप्रसूताद् द्रव्यगुणकर्मसामान्यविशेषसमवायानां पदार्थानां साधयंवैधाभ्यां तत्त्वज्ञामिःश्रेयसः।वैशे० सू० ११७४। ३..किं तु गमन एवान्त तानि। ४. नित्यद्रयाणि न कार्यद्रव्यवत् स्वकारणाश्रितानि भवन्ति ।
1. नवानामारमगुणविशेषाणाम् क०, ख० । 2. -दीनामपि क०, ख० । 8.-त्तरपाये क०, ख० । 4. प्रवृत्तिनिवर्तते खः ।
For Private And Personal Use Only