SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६] सांख्यशासन-परीक्षा स्यात् , उर्वीपर्वततर्वादिपदार्थानां ब्रह्ममयत्ववत् प्रधानमयत्वस्यापि प्रत्यक्षणानुपलक्षणात् सिद्धं सांख्यशासनं दृष्टविरुद्धम् । १७. तथा तदिष्टविरुद्धं च । कापिलाभिमतस्य कूटस्थनित्यपुरुषस्य कथंचित्तदनित्यत्वसाधकानुमानेन विरुद्धत्वात् । तच्चेदम्-विवादापन्नः पुरुषः स्यादनित्यः, अनित्यभोगाभिन्नत्वात् । यदित्थं तदित्थं दृष्टम् ; यथा भोगस्वरूपमिति । नासिद्धं भोगस्यानित्यत्वम् , 'अनित्यो भोगः उत्पत्तिमत्त्वात् , ज्ञानवत्' इत्यनुमानात्तत्सिद्धेः ।। .. १८. कथमुत्पत्तिमान् भोग इति चेत् , परापेक्षत्वात्तद्वदेव परापेक्षोऽसौ बुद्धयध्यवसायापेक्षत्वात् । “बुद्धयवसितमर्थ पुरुषश्चेतयते” [ ] इति वचनात् । भोगस्य बुद्धयध्यवसायानपेक्षत्वे पुंसः सर्वत्र सर्वदा सर्वभोगप्रसंगात् । भोग्यसंनिधिसव्यपेक्षतया कादाचित्कत्वाच्चानित्यः सिद्धो भोगः । तस्य च पुरुषाद् भेदे तेन तस्य गगनादेरिव पुरुषान्तरस्यैव वा भोक्तृत्वानुपपत्तेः । ततो भोगस्याभेदे तद्रूपतया पुरुषस्य कथंचिदनित्यत्वं सिद्धयतीति सम्यगिदं साधनमात्मानित्यत्वं साधयति । ततः सूक्तम्-सांख्यमतमिष्टविरुद्धमिति । १९. तथा चतुर्विधवर्णाश्रमतत्तद्विधेयविविधाचारपुण्य-पाप-परलोक-बन्ध-मोक्ष-तत्कारण-तत्फल-बद्ध-मुक्तादिस्वरूपप्रतिपादकः सांख्यागमो न प्रमाणं दृष्टेष्टविरुद्धागमाभिन्नस्य तस्य परोक्षतत्कारणेषु प्रामाण्यसंभावनानुपपत्तेरिति न तेषां धर्मानुष्ठानं प्रतिष्ठामियति । किमत्र बहुनोक्तेन यत् किंचित् सेश्वरनिरीश्वरसांख्यैरसंख्यावद्भिराख्यायते तत्सर्व मृषैव, तदभिमतसकलतत्त्वानामा3विर्भावाद्यपाकरणद्वारेण शून्यत्वस्यापादितत्वादित्यलं प्रसंगेन, दृष्टेष्टविरुद्धत्वात् सांख्यशासनस्यासत्यत्वसिद्धेः। दृष्टेष्टेषु' दृष्टेष्टविरोधात् सांख्यसंमतः । परोक्षेषु तदेकत्वादागमो न प्रमाणताम् ।। आविर्भावच्युतौ सर्वच्युतेः सांख्यवचोऽखिलम् । भवेत् प्रलापमात्रत्वात् नावधेयं विपश्चिताम् ॥ न सांख्यशासनं सत्यं दृष्टदृष्टेष्टबाधतः । न च तेन प्रतिक्षेपः स्याद्वादस्येति निश्चितम् ॥ [इति सांख्यशासन-परीक्षा ] १. पुरुषात् । ... 1. -मानासिद्धेः क०, ख० । 2. कदाचित्-क०, ख० । ४. तत्त्वामावि-क० । 4. दृष्टेष्विष्टेषु ख०, ग०। 5. प्रमाण्यताम् क०, ग० । 6. -दश्चेति क०, ख० । For Private And Personal Use Only
SR No.020664
Book TitleSatyashasan Pariksha
Original Sutra AuthorN/A
AuthorVidyanandi Acharya, Gokulchandra Jain
PublisherBharatiya Gyanpith
Publication Year1964
Total Pages163
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy