SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सत्यशासन-परीक्षा [१२१२. तथा सत्युपलब्धियोग्यत्वे सत्यनुपलब्धेः नास्ति प्रधानम् । तदभावे तन्निमित्तका महदादयोऽपि न सिद्ध्येयुरिति सर्वाभावः । तथापि यदि वैय्यात्यात्' महदादिसृष्टिप्रक्रियोच्यते, तदायं प्रष्टव्यः-किमिदं महदादिकं प्रधानस्य कार्य वा परिणामो वेति, प्रथमपक्षे न तावत् सतस्तस्य कार्यत्वम् ; सर्वथा सत: कारणवैय्यर्थात् पुरुषवत् । "यदि सत् सर्वथा कार्य पुंवन्नोत्पत्तुमर्हति ।" [आप्तमी० श्लो० ३९ ] इति वचनात् । नाप्यसतः; "असदकरणादुपादानग्रहणात् सर्वसंभवाभावात् । शक्तस्य शक्यकरणात् कारणभावाच्च सत्कार्यम् ॥" [सांख्यका०९] इति स्वसिद्धान्तविरोधात् । सर्वथाप्यसतः उत्पत्तिविरोधाच्च ।। "यद्यसत्सर्वथा कार्य तन्माजनि खपुष्पवत् ।' [ आप्तमी० श्लो० ४२ ] इति वचनात । १३. द्वितीयपक्षे परिणामिनो* बहुधानकस्य परिणामा महदादयोऽत्यन्तं भिन्ना वा स्युः अभिन्ना वा, तत्र परिणामानां तदभिन्नानां क्रमशो वृत्तिर्मा भूत् परिणामिनोऽक्रमत्वात् । ततो भिन्नानां व्यपदेशो न स्यात् संबन्धासिद्धेरनुपकारकत्वात् । $ १४. न तावत् प्रधानं परिणामानामुपकारकम्, तत्कृतोपकारान्तरस्य कार्यत्वे सदसत्पक्षोक्तदोषानुषंगात् । परिणामत्वेतरभिन्नानां क्रमोत्पत्तिर्मा भूत् । भिन्नानां व्यपदेशो न स्यात् संबन्धासिद्धेरनुपकारात् । उपकारान्तरकल्पनायामनवस्थाप्रसंगात् । परिणामैः प्रधानस्योपकारे यावन्तो हि परिणामास्तावन्तस्तस्योपकारास्तत्कृतास्ततो यदि भिन्नाः, तदा तस्येति व्यपदेशोऽपि मा भूत् संबन्धासिद्धरनुपकारकत्वात् । तद्वतस्तैरुपकारान्तरेऽपि स एव पर्यनुयोगः इत्यनवस्था । ततस्ते यद्यभिन्नास्तदा तावद्धा प्रधानं भिद्येत । ते वा प्रधानकरूपतां प्रतिपद्येरन्निति प्रधानस्योपकाराणां चावस्थानासम्भवः । १५. अथ न भिन्नो नाप्यभिन्नः परिणामः केवलं महदादिरूपेण प्रधानं परिणमते दण्डकुण्डलाद्याकारैः सर्पवदिति चेत् ; तदेतत् स्वेष्टनित्यैकान्तबाधकम् ; पूर्वोत्तराकारपरिहारावाप्तिस्थितिलक्षणपरिणामाभ्युपगमे नित्यानित्यात्मकत्वस्यावश्यम्भावात् । $ १६. तदेवमनेकबाधकोपनिपातात् प्रधानादिचतुर्विंशतितत्त्वानि न व्यवतिष्ठन्ते । तदव्यवस्थितौ भोग्याभावे पुंसो भोक्तृत्वाभावादभावः स्यात्तस्य तल्लक्षणत्वात् । ततः प्रकृतिपुरुषतत्वयोरवस्थानाभावात सांख्याभिमतं सर्व तत्त्वं पुनरपि शून्यं जायत इति तत्कथं प्रत्यक्षसिद्धं स्यात् । १. विपरीताग्रहात् । २. पुरुषस्य । 1. करणचै- क०, ख० । 2. सर्वदा क० । 3. इति सिद्धान्त ग० | 4 परणामिनो क०, खः । 5. क्रमतो ग० । 6. तद्वतस्तैरकालरुप- ग०। 7. यात्वक क० । 8. को निपातात् क०, ख० । For Private And Personal Use Only
SR No.020664
Book TitleSatyashasan Pariksha
Original Sutra AuthorN/A
AuthorVidyanandi Acharya, Gokulchandra Jain
PublisherBharatiya Gyanpith
Publication Year1964
Total Pages163
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy