Book Title: Satyashasan Pariksha
Author(s): Vidyanandi Acharya, Gokulchandra Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ सांख्यशासन-परीक्षा ]
[ पूर्वपक्ष: ]
$१ तथा सांख्यशासनमपिदृष्टेष्टविरुद्धम् । एवं हि तावदाख्यान्ति सांख्या:-- सर्वमिदं जगत्प्रधानमयम् प्रधानं च सत्त्वरजस्तमसां साम्यावस्था स्वरूपम् । तथा च तद्ग्रन्था:
Acharya Shri Kailassagarsuri Gyanmandir
“सत्त्वं लघुप्रकाशक मिष्टमवष्टम्भकं चलं च रजः । गुरुवरणकमेव तमः साम्यावस्था भवेत्प्रकृतिः ॥''
[ सांख्यका० १३ ]
$ २. तत्र यदिष्टं प्रकाशकं लघु तत्सत्त्वमित्युच्यते । सत्त्वोदयात् प्रशस्ता एव परिणामा जायन्ते । यच्च चल' मवष्टम्भकं दारकं ग्राहकं वा तद्रज इत्युच्यते । रजस उदद्याद्रागपरिणामा एव जायन्ते । यद्गुरु आवरणकमज्ञानहेतुभूतं तत्तम इति निरूप्यते । तमस उदयात् द्वेषादज्ञानपरिणामा एव जायन्ते । सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः ।
"प्रकृतेर्महांस्ततोऽहंकारस्तस्माद्गणश्च षोडशकः । तस्मादपि षोडशकात् पञ्चभ्यः पञ्चभूतानि ||”
९३. जगदुत्पादिका प्रकृतिः, 'प्रधानं बहुधानकम्' इति प्रकृतेरभिधानानि । ततः प्रकृतेर्महानुत्पद्यते । आसर्गप्रलयस्थायिनी बुद्धिर्महान् । ततो महतः सकाशादहंकार उत्पद्यते । 'अहं ज्ञाता, अहं सुखी, अहं दुःखी' इत्यादि प्रत्ययविषयः । ततोऽहंकाराद् गन्धरसरूपस्पर्शशब्दा: 1, पञ्चतन्मात्राः, स्पर्शन - रसन-प्राण- चक्षु श्रोत्राणि पञ्चबुद्धीन्द्रियाणि, वाक-पाणि-पादपायूँ पस्थानि पञ्चकर्मेन्द्रियाणि मनश्चेति षोडशगणाः समुत्पद्यन्ते । तेपु षोडशगणेषु पञ्चतन्मात्रेभ्यः पञ्चभूतानि समुत्पद्यन्ते ।
१. प्रधानमिति प्रकृतेर्नामान्तरम् । २. मलविसर्जनङ्कारम् । ४. मुक्तः ।
1. एवं तावदा. क०, ख० 1 2. जलम- क०, ख० । 4. स्पर्शनश क०, ख० । 5. गुणेषु क० ।
[ सांख्यका० २२ ]
5
S४ तद्यथा - गन्धरूपरसस्पर्शेभ्यः पृथिवी, रसरूपस्पर्शेभ्यो जलम् रूपस्पर्शाभ्यां तेजः, स्पर्शाद्वायुः, शब्दादाकाशः समुत्पद्यत इति सृष्टिक्रमः । एतानि चतुर्विंशतितत्त्वानि । पञ्चविंशको जीवः । षड्विंशकः परम इति निरीश्वरसांख्याः । षड्विंशको महेश्वरः, सप्तविंशतिः परम इति सेश्वरसांख्याः । तेषु तत्त्वेषु -
For Private And Personal Use Only
"मूलप्रकृतिरविकृतिर्महादाद्याः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥"
[ सांख्यका० ३ ]
३. मूत्रविसर्जनेन्द्रियम् ।
3. ज्ञाखा कर, ख० |
,!

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163