Book Title: Satyashasan Pariksha
Author(s): Vidyanandi Acharya, Gokulchandra Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सत्यशासन-परीक्षा ते तेनैव निहत्य निर्दयतरं भस्मीकृता लुण्ठिताः, केचित् पञ्चशिखीकृता हि जटिनः कापालिकाश्चापरे॥
. [शृङ्गारशतक श्लो० ७९ ]
अन्यच्च
"पयोधरभरालसाः स्मरविर्णिताक्षणाः, क्वचिन्मलयपञ्चमोच्चरितगीतझकारिणीः । विहाय रमणीरमूरपरमोक्षसौख्यार्थिनामहो जडिमडिण्डिमो विफलभण्डपाखण्डिनाम् ॥"
] इति [ उत्तरपक्षः ]
६५. तदेतच्चार्वाकमतं तावद् दृष्टविरुद्धम् , प्रत्यक्षेण पृथिव्यादीनां परस्परमुपादानोपादेयभावदर्शनात् , तेषां सर्वथा तत्त्वान्तरत्वस्य पक्षस्य प्रत्यक्षविरोधसिधेः । तेषां परस्परमुपादानोपादेयभावेऽपि तत्त्वान्तरत्वे बीजादेरङ्कुरादेरपि तत्त्वान्तरत्वप्रसंगात् ।
६६. न च तेषां परस्परमुपादानोपादेयभावदर्शनमसिद्धम् , पृथिव्यात्मकचन्द्रकान्तसूर्यकान्त-काष्ठविशेषेभ्यो जलानलयोरुत्पत्तेः । प्रदीपजलैविशेषाभ्यां पृथ्वीरूपाञ्जन-मुक्ताफलयोः, पृथ्वीविशेषतालवृन्तादेर्वायोः साक्षाद्वीक्षणात् , अन्यथा दृष्टापलापप्रसंगात् ।
६७. तथा जीवो नास्तीत्यभिमतमपि दृष्टविरुद्धम् । सुखदुःखहर्षविषादाद्यनेकपरिणामात्मकस्यात्मतत्त्वस्य स्वसंवेदनप्रत्यक्षेण निर्वाधमनुभवात् हेतुभिर्विनैव अस्तित्वस्य सिद्धेः ।
"तस्य हि हेतुर्वाच्यो यस्मिन्मोमुह्यते मतिर्नृणाम् । न हि दर्पण श्रादेयः करकङ्कणदर्शनाय बुधैः ।।"
] इति वचनात् $ ८. न च जीवस्य ज्ञानात्मनः स्वसंवेदनमसिद्धम् ; ज्ञानस्य स्वसंविदितत्वे चाभावापत्तेग्राहकाभावात् । ज्ञानान्तरेण ग्रहणे, तस्यापि तदनन्तरेण ग्रहणकल्पनायामनवस्थोपनिपातात् । तदकल्पनायां तथा वक्तुमशक्तेः । न चानुमानेन तद्ग्रहणम् , तदनुपगमात् प्रमाणसंख्याव्याघाताच्च । ततः स्वसंवेदनमेषितव्यम् । तत्र च स्वसंवेदनेन जीवस्य भोक्तृत्वासाधारणधर्मभृतः साक्षात्करणाद् दृष्टविरुद्धमिदं बार्हस्पत्यं मतम् ।
Ft. नासिद्धं भोक्तृत्वस्यासाधारणत्वम् ; अचेतनस्य शरीरादेस्तदनुपपत्तेः । न ह्यचेतनस्य शरीरस्य भोक्तृत्वमुपपद्यते, शरीरस्य भोगाधिष्ठानत्वेन प्रसिद्धः, अन्यथा मृतकस्यापि भोक्तृत्वप्रसंगात् । नापि करणग्रामस्य; तस्य भोगोपभोगकरणत्वात् । न च शब्दादिविषयस्य; भोग्यत्वेन
___१. उद्धृतमिदम्-यशस्तिलके उत्तराधे, पृ० २५२ । २. मणिभ्यः । ३. स्वातिनक्षत्रे वृष्टस्य शुक्तिमध्ये पतितस्य । ४. अनुमानानभ्युपगमात् । ५. इन्द्रियसमूहस्य ।
1. -सङ्कारिण: क० । 2. -त्वस्य परोक्षस्य प्रत्य० ख० । -स्वस्य परेष्टस्य प्रत्य० ग० । 3. -य संवे० क० । 4. -मनो० क० । 5. -णमादेयः क० । 6. -पि साधा० क०, ख० ।
For Private And Personal Use Only

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163