Book Title: Satyashasan Pariksha
Author(s): Vidyanandi Acharya, Gokulchandra Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४
सत्यशासन-परीक्षा
[२२इत्यपि तथा निश्चयानुत्पत्तौ न सिद्ध्येत् , ब्रह्माद्वैतादिवदिति सर्व विप्लवते ।
$ २२. ततः कुतश्चिन्निश्चयात् नीलादिस्वभावव्यवस्थायां स्थूलादिनिश्चयात् वस्तुनि परमार्थतः स्थूलाद्याकारव्यवस्थितिरास्थेया अन्यथा क्वचिदपि व्यवस्थानासिद्धेः ।
२३. ततो न तेषां सांवृतत्वम्, संवृते विकल्पात्मिकायाः प्रागेव प्रत्यादिष्टत्वाच्चेति प्रागुक्तं शाक्यवाक्यमशेषतः प्रतिज्ञारूपं प्राज्ञैरवज्ञायते ।
६२४. ननु [ न ] परमार्थाः स्थूलाद्याकाराः बाधकसदभावात् । तथा हि-स्थूलाकारोऽवयवी, साधारणाकारः सामान्यम् । तत्र चैकस्यावयविनोऽनेकेप्ववयवेषु सामान्यस्यैकस्य अनेकव्यक्तिषु वृत्तिः परैरिष्टा, प्रत्याश्रयं किमेकदेशेन, सर्वात्मना वा स्यात् प्रकारान्तराभावात् । समवायः प्रकारान्तरमिति चेत्, न; अयुतसिद्धेषु वर्तते समवैति इत्यनयोरर्थभेदाभावात् । तत्रैकमनेकत्र वर्तमान प्रत्यधिकरणं न तावदेकदेशेन, निःप्रदेशत्वात् । नापि सर्वात्मना , अवयव्यादिबहुत्वप्रसंगात् ; यावन्तोऽवयवादयस्तावन्तोऽवयव्यादयः स्युः, तेषां प्रत्येकं सर्वात्मना वृत्तत्वात् ।
२५. अथ प्रदेशवत्वं मन्येत अवयव्यादीनां तत्रापि वृत्तिविकल्पोऽनवस्था च । तथा वावयव्यादि सर्प तदेकमेव न स्यादिति वृत्तेर्दोषस्य बाधकस्य भावादिति चेत् ; तदसत् , भेदैकान्तवादिनामेव प्रतिपादितदोषोपनिपातात् । स्याद्वादिभिरपि
"एकस्यानेकवृत्तिर्न भागाभावाद्बहूनि वा। भागित्वाद्वास्य नैकत्वं दोषो वृत्तेरनाहते ॥"
[आप्तमी० श्लोक० ६२ ] इति तान् प्रति तद्दोषप्रतिपादनात्।
$२६. नन्वेचं वृत्तेर्दोषः स्याद्वादिनां च प्रसज्यत इति चेत् ; तर्हि नायं प्रसंगोऽनेकान्ते कथंचित्तादात्म्यात् वेद्यवेदकाकारज्ञानवत् । यथैव हि ज्ञानस्य वेद्यवेदकाकाराभ्यां तादात्म्यम्, अशक्यविवेचनत्वात् 'किमेकदेशेन सर्वात्मना वा' इति विकल्पयोर्न विज्ञानस्य सावयवत्वं बहुत्वं वा "प्रसज्येत, अनवस्था वा, तथा अवयव्यादेरप्यवयवादिभ्यस्तादात्म्यमशक्यविवेचनत्वादेव नैकदेशन प्रत्येकं सर्वात्मना' वा; यतस्ताथागतः सर्वथा भेद इव अवयवावयव्यादीनां कथंचित्तादात्म्येऽपि वृत्तिं दूषयेत् ।
२७. यदनान्यदप्युक्तम्-न परमार्थः स्थूलाकारः परमाणूनां संबन्धासिद्धेः तेषामेकदेशेन संबन्धे दिग्भागभेदादनुषट्केन युगपद्योगे षडंशतापत्तेः; सर्वात्मना संबन्धे प्रचयस्यैकपरमाणुमात्र
. १. प्रत्याख्यानं निरसनं प्रत्यादेशो निराकृतिः श्रा० टि० । २. नैयायिकान् प्रति वृत्तिविकल्पदोषस्य । - 1.-रप्यासेया-क०। 2. ननु परमा- क०। 3. -षयेषु क० । 4. -बेदिना क०, ख०। 5. वेगवेदनाकार-1०। 6. प्रसज्यते ख०, ग० । 7. प्रत्येक असर्वा-क.।
For Private And Personal Use Only

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163