Book Title: Satyashasan Pariksha
Author(s): Vidyanandi Acharya, Gokulchandra Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 114
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सत्यशासन-परीक्षा ...$१. न च परमाणवः प्रत्यक्षा भवितुमर्हन्ति, तत्साक्षात्करणे प्रमाणाभावात् । निर्विकल्प प्रत्यक्षमस्तीति चेत् ; न तस्याव्यवसायात्मकस्याप्रामाण्यात्, अविसंवादवैकल्यात् । तथा हियदविसंवादविकलं न तत्प्रमाणं, यथा अज्ञस्य विषदर्शनम्, तद्विकलं च सौगतपरिकल्पितं दर्शनम् | अविसंवादो हीत्थं गेयमित्थं चित्रमित्यभिसन्धिकरणमेव । “अभिप्रायनिवेदनादविसंवादनम्" [प्र० वा० १।३] इति वचनात् । न च तन्निवेदनमव्यवसायस्य, अज्ञविषदर्शनस्यापि तत्प्रसंगात् । १०. अव्यवसायस्यापि दर्शनस्य व्यवसायजननात्त न्निवेदनमिति चेत् न व्यवसायस्यैवासंभवात् , कुतश्चिदपि तत्स्वरूपस्याव्यवस्थितेः । विकल्पस्वरूपस्य स्वसंवेदनेन व्यवस्थापनेऽपि तस्य विकल्पान्तरापेक्षत्वप्रसंगात्, नीलादिस्वलक्षणदर्शनवत् । ११. यदि स्वसंवेदनं निश्चयस्वरूपं निश्चयनिरपेक्षतया परिनिष्ठापयेत् तदा वस्तुदर्शनमपि स्वलक्षणम् , विशेषाभावात् , तथा च कि निश्चयापेक्षया ? वस्तुदर्शनस्य निश्चयापेक्षायां वा निश्चयस्वरूपसंवेदनस्यापि निश्चयान्तरापेक्षणादनवस्था स्यात् । विकल्पस्य विकल्पान्तरेण व्यवस्थापनेऽपि तस्यापि तदन्तरेण व्यवस्थेति तदवस्थैवानवस्था। ततो व्यवसाय एव न संभवति यतस्तजननात् प्रत्यक्षं प्रामाण्यमुपढौकेत। १२. यथा कथंचिद् व्यवसायस्य संभवे वा न तज्जतनं संभवति अव्यवसायाद् व्यवसायस्य गर्दभादश्वस्येवानुत्पत्तेः । अभिलापशून्यादप्यध्यक्षा व्यवसायकल्पनायां स्वलक्षणं किं नाध्यवसायं जनयेत् स्वयमभिलापशून्यमपि, प्रत्यक्षमध्यवसायस्य हेतुर्न पुनः रूपादिरिति कथं सुनिरूपिताभिधानम् । १३. यदि पुनरविकल्पकादपि प्रत्यक्षाद्विकल्पात्मनोऽध्यवसायस्योत्पत्तिः प्रदीपादेः कजलादिवत्; विजातीयादपि कारणात् कार्यस्योत्पत्तिदर्शनादिति मतम् । तदा तादृशोऽर्थाद्विकल्पात्मनः प्रत्यक्षस्योत्पत्तिरस्तु तत एव । १४. जातिद्रव्यगुणक्रियापरिभाषाकल्पनारहितादर्थात् कथं जात्यादिकल्पनात्मकं प्रत्यक्षं स्यादिति चेत् ; प्रत्यक्षात्तद्रहिताद्विकल्पः कथं जात्यादिकल्पनात्मकः स्यादिति समानः पर्यनुयोगः । विकल्पस्य जात्यादिविषयत्वाददोषः इति चेत्, न; प्रत्यक्षवत् तस्यं जात्यादिविषयत्वविरोधात्; तत एव तस्य वस्तुनोऽप्युत्पत्तिप्रसक्तेश्चेति व्यवसायहेतुत्वमनुपपन्नमेव । १५. अथ व्यवसायवासनोन्मीलनेन अव्यवसायस्यापि व्यवसायहेतुत्वं दर्शनस्येति चेत्; न; तद्वदर्थस्यैव तद्धेतृत्वप्रसंगेन अन्तर्गडुनो दर्शनस्याऽकल्पनापत्तेः । व्यवसायहेतुत्वेन चाविसंवादित्वमौपचारिकमेव दर्शनस्य स्यात्, मुख्यतः संनिपत्याऽभिप्रायनिवेदनेन व्यवसायस्यैव तदुपपत्तेः । १. "प्रमाणमविसंवादिज्ञानमर्थक्रियास्थितिः । अविसंवादनं शाब्देऽप्यमिप्रायनिवेदनात् ॥” प्र० वा० १॥३ २. व्यवस्थापयेत् । ३. शब्दरहितात् । ४. निर्विकल्पस्य । ५. प्रत्यक्षात् । ____ 1. -हितं ज्ञेयं क०। 2.-नातं निवेदमिति ख०, -जनमिति ग०। 3. इति पदं 'ग' प्रती नास्ति ।। 4. एव तद्वजादव-क०, ख०। 5. पर्यानयोगः क, ख.। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163